सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 727, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 727

७२६ ॥ काशिका ॥ ७ । ४ ॥
दुरस्यूर्द्रविणस्युर्वृषण्यति रिषण्यति ॥ ३६ ॥
दुरस्युः द्रविणस्युः वृषण्यति रिषण्यति एतानि छन्दसि निपात्यन्ते ।
दुष्टशब्दस्य क्यचि दुरस्भावो निपात्यते । अवियोना दुरस्युः । दुष्टीयतीति
प्राप्ते । द्रविणशब्दस्य द्रविणस्भावो निपात्यते । द्रविणस्युर्विपन्यया । द्रवि-
णीयतीति प्राप्ते । वृषशब्दस्य वृषणभावो निपात्यते । वृषण्यति । वृषीयतीति
प्राप्ते । रिष्टशब्दस्य रिषणभावो निपात्यते । रिषण्यति । रिष्टीयतीति प्राप्ते ॥
अश्वाघस्यात् ॥ ३७ ॥
अश्व अघ इत्येतयोः क्यचि परतः छन्दसि विषये आकारादेशो भव-
ति । आश्वायन्तो मघवन् । मा त्वा वृका अघायवो विदन् । एतदेवाश्ववचनं
ज्ञापकं नच्छन्दस्यपुत्रस्येति दीर्घप्रतिषेधो भवतीति ॥
देवसुम्नयोर्यजुषि काठके ॥ ३८ ॥
देव सुम्न इत्येतयोः क्यचि परत आकारादेशो भवति यजुषि काठके ।
देवायन्तो यजमानाय । सुम्नायन्ता हवामहे । यजुषीति किम् । देवाञ्जिगाय
सुम्न्युः । काठकइति किम् । सुम्नयुरिदमासीत् ॥
कव्यध्वरपृतनस्यर्चि लोपः ॥ ३९ ॥
कवि अध्वर पृतना इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि
विषये । कव्यन्तः सुमनसः । अध्वर । अध्वर्यन्तः । पृतन्यन्तस्तिष्ठन्ति ॥
द्यतिस्यतिमास्थामित्ति किति ॥ ४० ॥
द्यति स्यति मा स्था इत्येतेषामङ्गानामिकारादेशो भवति तकारादौ
किति प्रत्यये परतः । द्यति । निर्दितः । निर्दितवान् । स्यति । अवसितः ।
अवसितवान् । मा । मितः । मितवान् । स्था । स्थितः । स्थितवान् । तीति
किम् । अवदाय । कितीति किम् । अवदाता ॥
शाच्छोरन्यतरस्याम् ॥ ४१ ॥
शा छा इत्येतयोरन्यतरस्यामिकारादेशो भवति तकारादौ किति ।
शा । निशितम् । निशातम् । निशितवान् । निशातवान् । अवच्छितम् । अव-
च्छातम् । अवच्छितवान् । अवच्छातवान् ॥ श्यतेरित्वं व्रते नित्यमिति वक्त-
व्यम् ॥ * ॥ संशितो ब्राह्मणः । संशितव्रत इत्यर्थः । व्यवस्थितविभाषाविज्ञा-
नात्सिद्धम् ।
देवत्रातो गलो ग्राह्य इतियोगे च सद्धिधिः ।
मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ॥