काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 724, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 724
॥ काशिका ॥ ७ ॥ ४ ॥ ७२३
के प्रत्यये परतो ऽणो ह्रस्वो भवति । अका । कुमारिका । किशोरिका ।
अण इति किम् । गोका । नौका । राका धाकेत्यत्र उणादयो बहुलमिति
ह्रस्वो न भवति । न कपीतिप्रतिषेधसामर्थ्यात्केनोपि सानुबन्धकस्य ग्रहण-
मिह भवति ॥
न कपि ॥ १४ ॥
कपि प्रत्यये परतो ऽणो ह्रस्वो न भवति । बहुकुमारीकः । बहुव-
धूकः । बहुलक्ष्मीकः । गोस्त्रियोरुपसर्जनस्येत्ययमपि ह्रस्वः कपि न भवति ।
समासान्ते ह्युत्तरपदे कपि कृते पश्चात्समासेन भवितव्यमिति स्त्रीप्रत्ययान्त-
समासप्रातिपदिकं न भवति ॥
आपोऽन्यतरस्याम् ॥ १५ ॥
आबन्तस्याङ्गस्य कपि ह्रस्वो न भवत्यन्यतरस्याम् । बहुखट्वाकः ।
बहुखट्वकः । बहुमालकः । बहुमालाकः ॥
ऋदृशो