सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 722, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 722

॥ काशिका ॥ ७ ॥ ४ ॥ ७२१
राजानमतिक्रान्तवान् । अत्यरराजत् । लोमान्यनुमृष्टवान् । अन्वलुलोमत् ।
आवेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावादपि सिद्धम् । हलश्चोरादेशे तु न
सिध्यतीति तदर्थमेतद्वचनम् । अशशासत् । ऋदिताम् । बाधृ । अबबाधत् ।
याच् । अययाचत् । ढौकृ । अडुढौकत् ॥
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ॥ ३ ॥
भ्राज भास भाष दीप जीव मील पीड इत्येतेषामङ्गानां णौ चङ्युपधाया
ह्रस्वो भवत्यन्यतरस्याम् । भ्राज । अबिभ्राजत् । अबभ्राजत् । भास । अबभासत् ।
अबीभसत् । भाष । अबभाषत् । अबीभषत् । दीप । अदिदीपत् । अदीदिपत् ।
जीव । अजीजिवत् । अजिजीवत् । मील । अमिमीलत् । अमीमिलत् । पीड ।
अपिपीडत् । अपापिडत् । भ्राजभासोष्टेदिष्टकरणमपाणिनीयम् ॥ काश्यादीनां
वेति वक्तव्यम् ॥ * ॥ अचकाणत् । अचीकणत् । अववाणत् । अवीवणत् ॥
लोपः पिबतेरीच्चाभ्यासस्य ॥ ४ ॥
पिबतेरङ्गस्य णौ चङ्युपधाया लोपो भवति अभ्यासस्येकारादेशो भवति ।
अपीप्यत् । अपीप्यताम् । अपीप्यन् । उपधालोपे कृते ओः पुयण्वचनं ज्ञापकं
णौ स्थानिवद्भावस्येति स्थानिवद्भावाद् द्विर्वचनम् ॥
तिष्ठतेरित् ॥ ५ ॥
तिष्ठतेरङ्गस्य णौ चङ्युपधाया इकारादेशो भवति । अतिष्ठिपत् ।
अतिष्ठिपताम् । अतिष्ठिपन् ॥
जिघ्रतेर्वा ॥ ६ ॥
जिघ्रतेरङ्गस्य णौ चङ्युपधाया इकारादेशो वा भवति । अजिघ्रिपत् ।
अजिघ्रिपताम् । अजिघ्रिपन् । अजिघ्रपत् । अजिघ्रपताम् । अजिघ्रपन् ॥
उऋत् ॥ ७ ॥
णौ चङ्युपधाया ऋवर्णस्य स्थाने वा ऋकारादेशो भवति । इरराराम-
पवादः । दृ । अचिकीर्त्तत् । अचिकृतत् । वृ । अववर्त्तत् । अविवृतत् ।
मार् । अममार्ज्जत् । अमीमृजत् । वचनसामर्थ्यादन्तरङ्गा अपि इररारो
बाध्यन्ते । तपरकरणं दीर्घेपि स्थानिनि ह्रस्व एव यथा स्यात् । अचिकृतदिति ।
न चायं भाव्यमानः किं तु आदेशान्तरनिवृत्त्यर्थे स्वरूपमेवैतदभ्यनुज्ञायते ॥
नित्यं छन्दसि ॥ ८ ॥
छन्दसि विषये णौ चङ्युपधाया ऋवर्णस्य स्थाने ऋकारादेशो भवति
नित्यम् । अवीवृधत्पुरोडाशेन । अवीवृधताम् । अवीवृधन् ॥
४६