काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 72, कुल 828 में से
संदर्भ में पढ़ेंबहुत्वस्य वाच्यं भवतीति यावत् । कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्या-
स्तदीये बहुत्त्वे बहुवचनं कर्मादिषु बहुषु बहुवचनमित्यर्थः । ब्राह्मणाः
पठन्ति । यत्र च संख्या संभवति तत्रायमुपदेशः । अव्ययेभ्यस्तु निःसंख्येभ्यः
सामान्यविहिताः स्वादयो विद्यन्तएव ॥
द्व्येकयोर्द्विवचनैकवचने ॥ २२ ॥
द्वित्वेकत्वयोरर्थयोर्द्विवचनैकवचने भवतः । एतदपि सामान्यविहितयो-
र्द्विवचनैकवचनयोरर्थाभिधानम् । द्वित्वे द्विवचनं भवति एकत्वे एकवचनं भव-
ति । ब्राह्मणौ पचतः । ब्राह्मणः पचति ॥
कारके ॥ २३ ॥
कारकेति । विशेषकमपादानादिसंज्ञाविषयमधिक्रियते । कारकशब्दस्या-
धिकारो वेदितव्यः । यदिह कर्त्तुमनुक्रमिष्यामः कारकमित्येवं तद्वेदितव्यम् ।
कारकशब्दश्च निमित्तपर्यायः । कारकं हेतुरित्यनर्थान्तरम् । कस्य हेतुः ।
क्रियायाः । वक्ष्यति ध्रुवमपाये ऽपादानम् । ग्रामादागच्छति । पर्वतादवरो-
हति । कारकेति किम् । वृक्षस्य पर्णं पतति । कुड्यस्य पिण्डः पतति । अक-
थितं च । अकथितं च कारकं कर्मसंज्ञं भवति । माणवकं पन्थानं पृच्छति । कार-
केति किम् । माणवकस्य पितरं पन्थानं पृच्छति । कारकसंज्ञाशब्देषु चानेनैव
विशेषणेन व्यवहारो विज्ञास्यते ॥
ध्रुवमपाये ऽपादानम् ॥ २४ ॥
ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत्कारकमपादानसंज्ञं भवति ।
ग्रामादागच्छति । पर्वतादवरोहति । सार्थाद्धीनः । स्वात्यात्पतितः ॥ जुगुप्सावि-
रामप्रमादार्थानामुपसंख्यानम् ॥ * ॥ अधर्माज्जुगुप्सते । अधर्माद्विरमति ।
धर्मात्प्रमाद्यति । अपादानप्रदेशा अपादाने पञ्चमीत्येवमादयः ॥
भीत्रार्थानां भयहेतुः ॥ २५ ॥
बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर्यस्तत्कारकमपादा-
नसंज्ञं भवति । चौरेभ्यो बिभेति । चौरेभ्य उद्विजते । त्रायत्यर्थानाम् । चौरेभ्यस्त्रा-
यते । चौरेभ्यो रक्षति । भयहेतुरिति किम् । अरण्ये बिभेति । अरण्ये त्रायते ॥
पराजेरसोढः ॥ २६ ॥
परापूर्वस्य जयतेः प्रयोगे ऽसोढो यो ऽर्थः सोढुं न शक्यते तत्कारकमपा-
दानसंज्ञं भवति । अध्ययनात्पराजयते । असोढ इति किम् । शत्रून्पराजयते ॥
वारणार्थानामीप्सितः ॥ २७ ॥
वारणार्थानां धातूनां प्रयोगे य ईप्सितोऽर्थः तत्कारकमपादानसंज्ञं भव-
५