सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 71, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 71

६४ • ॥ काशिका ॥ १ ॥ ४ ॥
चम्मीयते । सिद्धे सत्यारम्भो नियमार्थः । नान्तमेव क्ये परतः पदसंज्ञं भवति
नान्यत् । वाच्यति । सुच्यति ॥
सिति च ॥ १६ ॥
यचि भमिति वक्ष्यति तस्यायं पुरस्तादपवादः । सिति प्रत्यये परतः
पूर्वं पदसंज्ञं भवति । भवतष्ठक्छसौ । भवदीयः । ऊर्णाया युस् । ऊर्णायुः ।
ऋतोरण् । छन्दसि घस् । ऋत्वियः ॥
स्वादिष्वसर्वनामस्थाने ॥ १७ ॥
स्वादिष्विति सुशब्दादेकवचनादारभ्य आ कपः प्रत्यया गृह्यन्ते ।
स्वादिषु प्रत्ययेषु परतः सर्वनामस्थानवर्जितेषु पूर्वं पदसंज्ञं भवति । राजभ्याम् ।
राजभिः । राजत्वम् । राजता । राजतरः । राजतमः । असर्वनामस्थानइति
किम् । राजानौ । राजानः ॥
यचि भम् ॥ १८ ॥
स्वादिष्वसर्वनामस्थानइति वर्तते । पूर्वेण पदसंज्ञायां प्राप्तायां तदप-
वादो भसंज्ञा विधीयते । यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते
प्रत्यये परतः पूर्वं भसंज्ञं भवति । यकारादौ । गार्ग्यः । वात्स्यः । अजादौ ।
दाक्षिः । प्लाक्षिः ॥ नभोङ्गिरोमनुषां वत्युपसंख्यानम् ॥ * ॥ नभवद् नभस्यत् ।
अङ्गिरोवद् अङ्गिरस्यत् । मनुर्वद् मनुष्यत् ॥ तृष्वण्वस्वश्वयोः ॥ * ॥ तृष्वण्वि-
त्येतत् वस्वश्वयोः परतो भसंज्ञं भवति छन्दसिविषये । तृष्वण्वसुः । तृष्वण्वश्वस्य
मेने । भप्रदेशाः भस्येत्येवमादयः ॥
तसौ मत्वर्थे ॥ १६ ॥
भमिति वर्तते । तकारान्तं सकारान्तं शब्दरूपं मत्वर्थीये प्रत्यये परतो
भसंज्ञं भवति । उदश्वित्वान् घोषः । विद्युत्वान् बलाहकः । सकारान्तम् ।
यशस्वी । पयस्वी । तसाविति किम् । तत्तवान् ग्रामः ॥
अयस्मयादीनिच्छन्दसि ॥ २० ॥
अयस्मयादीनि शब्दरूपाणि छन्दसि विषये साधूनि भवन्ति । भपद-
संज्ञाधिकारे विधानात्तेन मुखेन साधुत्वमयस्मयादीनां विधीयते । अयस्मयं वर्म ।
अयस्मयानि पात्राणि । क्व चिदुभयमपि भवति । स सुष्टुभा स ऋक्वता गणेन ।
पदत्वात्कुत्वं भत्वाज् जश्त्वं न भवति । छन्दसीति किम् । अयोमयं ॥
बहुषु बहुवचनम् ॥ २१ ॥
ङ्याप्प्रातिपदिकात्स्वाद्याः लस्य तिबादय इति सामान्येन बहुवचनं
विहितं तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते । बहुषु बहुवचनं भवति ।