काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 712, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 712
॥ काशिका ॥ ७ ॥ ३ ॥ ७१९
भोज्यं भक्ष्ये ॥ ६९ ॥
भोज्यं निपात्यते भक्ष्येऽभिधेये । भोज्य ओदनः । भोज्या यवागूः । इह
भक्ष्यमभ्यवहार्यमात्रम् । भक्ष्यइति किम् । भोग्यः कम्बलः ॥
घोर्लोपो लेटि वा ॥ ७० ॥
घुसंज्ञानां लेटि परतो वा लोपो भवति । दधद्रत्नानि दाशुषे । सोमो
ददद्गन्धर्वाय । न च भवति । यदग्निरनये ददात् । आडागमे सति लोपेऽपि
ददादिति सिद्धं भवति । तत्र वावचनं विस्पष्टार्थम् । एषा हि कस्य चिदा-
शङ्का स्याद्ददादित्येव नित्ये प्राप्ते लोप आरभ्यमाणो बाधतएवैतद्रूपमिति ॥
ओतः श्यनि ॥ ७१ ॥
ओकारान्तस्याङ्गस्य श्यनि परतो लोपो भवति । शो, निश्यति । छो,
अवच्छ्यति । दो, अवद्यति । सो, अवस्यति ॥