काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 707, कुल 828 में से
संदर्भ में पढ़ें७०६ ॥ काशिका ॥ ७ ॥ ३ ॥
सारिका दासी ॥ वर्णका तान्तवउपसंख्यानम् ॥ * ॥ वर्णका प्रावरणभेदः ।
तान्तवइति किम् । वर्णिका भागुरी लोकायते ॥ वर्त्तका शकुनौ प्राचामुपसं-
ख्यानम् ॥ * ॥ वर्त्तका शकुनिः । प्राचामन्यत्र उदीचां तु वर्त्तिका । शकुना-
विति किम् । वर्त्तिका भागुरी लोकायतस्य ॥ अष्टका पितृदैवत्ये ॥ * ॥
अष्टका । पितृदैवत्यइति किम् । अष्टिका खारी ॥ वा सूतकापुत्रकावृन्दार-
काणा मुपसंख्यानम् ॥ * ॥ सूतिका । सूतका । पुत्रिका । पुत्रका । वृन्दा-
रिका । वृन्दारका ॥
उदीचामातः स्थाने यकपूर्वायाः ॥ ४६ ॥
उदीचामाचार्याणां मतेन यकारपूर्वायाः ककारपूर्वायाश्चातः स्थाने
योऽकारस्तस्यातः स्थाने इकारादेशो भवति । उदीचां ग्रहणं विकल्पार्थम् ।
इभ्यका । इभ्यिका । क्षत्रियका । क्षत्रियिका । ककारपूर्वायाः । चटकका ।
चटकिका । मूषिकका । मूषिकिका । आात इति किम् । सांकाश्ये भवा
सांकाश्यिका । स्थानग्रहणमनुवादेपि स्थानसंबन्धप्रतिपत्त्यर्थम् । आात इत्य-
नेन ह्यत इति स्थानी विशिष्यते । यकपूर्वाया इति किम् । अश्वा । अश्विका ।
यकपूर्वाया इति स्त्रीलिङ्गनिर्देशः आतः स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थं, इह न
भवति । शुभं यातीति शुभंयाः । शुभंयिका ॥ यकपूर्वत्वे धात्वन्तप्रति-
षेधः ॥ * ॥ धात्वन्तयोर्यकारककारयोरस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः ।
सुनयिका । सुशयिका । सुपाक्किका । आशोकिका ॥
भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि ॥ ४७ ॥
आतः स्थाने योकारस्तस्य इत्वं न भवति उदीचामाचार्याणां मतेन ।
भस्त्रा । भस्त्रिका । भस्त्रका । अभस्त्रा । अभस्त्रिका । एषका । एषिका ।
अजका । अजिका । अनजिका । अनजका । ज्ञका । ज्ञिका । अज्ञका । अज्ञिका ।
द्वके । द्विके । स्वका । स्विका । अस्विका । अस्वका । एषाद्वे नञ्पूर्वे न प्रयो-
ज्यतः। किं कारणम् । तत्र हि सति यदि साकच्काभ्यां नञ्समासः, अथापि
कृते नञ्समासे पश्चादकच्, उभयथापि समासाद् या विभक्तिरुत्पद्यते तस्यां
त्यदाद्यत्वे सति टापा भवितव्यं सोन्तर्वर्त्तिन्या विभक्त्या सुबन्तत्वादिति
ह्रस्वस्य प्राप्तिरेव नास्ति । तेन अनेषका अद्वके इत्येव नित्यं भवितव्यम् ।
स्वशब्दस्तु ज्ञातिधनाख्यायां नञ्पूर्वोपि प्रयोक्ष्यति । भस्त्रेत्ययमभाषितपुंस्क-
स्तस्याभाषितपुंस्काच्चेत्येव सिद्धे यदिह ग्रहणं तदुपसर्जनार्थम् । अविद्यमाना
भस्त्रा यस्या अभस्त्रा । साल्या, अभस्त्रका । अभस्त्रिका । अत्रोपसर्जनह्रस्वत्वे
कृते पुनर्बहुव्रीहौ कृते भाषितपुंस्काद्वाष्टाबुत्पद्यते तस्य के ऽण इति यो ह्रस्वो
नासावभाषितपुंस्काद्विहितस्यातः स्थाने भवति । नञ्पूर्वाणामपीत्यपिशब्दा-