सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 706, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 706

॥ काशिका ॥ ७ ॥ ३ ॥ ७०५
प्रत्ययस्थात्ककारात्पूर्वस्याकारस्य इकारादेशो भवति आपि परतः, स
चेदाप्सुपः परो न भवति । जटिलिका । मुण्डिका । कारिका । हारिका ।
एतिकाश्चरन्ति । प्रत्ययग्रहणं किम् । शक्नोतीति शका । स्थग्रहणं विस्पष्टार्थं
ककारमात्रं प्रत्ययो नास्तीति सामर्थ्यात्प्रत्ययस्थस्य ग्रहणं शक्यते विज्ञातुम् ।
आदिति किम् । नन्दना । रमणा । पूर्वस्येति किम् * । पटुका । मृदुका ।
अत इति किम् । गोका । नौका । तपरकरणं किम् । राका । धाका । आपीति
किम् । कारको, धारकः । अथापीत्यनेन विशिष्यते ककारः । यद्येवं, कारि-
केत्यत्रापि न प्राप्नोति अकारेण व्यवहितत्वात् । एकादेशे कृते नास्ति व्यव-
धानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानमेव । 'वचनाद् व्यव-
धानमीदृशं यत्स्थानिवद्भावकृतमेकेन वर्णेन तदाश्रीयते रक्षकत्यादिषु तु श्रुति-
कृतमनेकेन वर्णेन व्यवधानमिति इत्त्वं न भवति । असुप इति किम् । बहवः
परिव्राजका अस्यां मथुरायां बहुपरिव्राजका मथुरा । सुबन्तादयं बहुपरिव्राज-
कशब्दात्पर आपिति प्रतिषेधो भवति । प्रसज्यप्रतिषेधश्चायं न पर्युदासः ।
पर्युदासे हि सति समुदायादसुबन्तात्पर आपितीत्वमत्र स्यादेव । अविद्य-
मानः सुप् अस्मिन् सोयमसुबिति । एवमपि नाश्रीयते । तथा हि सति बहुच-
र्मिकेत्यत्रापि न स्यात् ॥ मामकनरकयोरुपसंख्यानं कर्तव्यमप्रत्ययस्थत्वात् ॥ * ॥
मम इयं मामिका । नरिका । अणि ममकादेशः । केवलमामकेति नियमात्
संज्ञाछन्दसोरीकारो नान्यत्र । तेनाणप्रत्ययान्तादपि टाप् भवति । नरान्
कायतीति नरिका । आतोऽनुपसर्गे क इति कः प्रत्ययः ॥ प्रत्ययनिषेधे त्यक्-
त्यपोश्चोपसंख्यानम् ॥ * ॥ उदीचामतः स्थाने यकपूर्वाया इति विकल्पो मा
भूदिति, दाक्षिणात्यिका । इहत्यिका ॥
न यासयोः ॥ ४५ ॥
या सा इत्येतयोरिकारादेशो न भवति । यका । सका । या सा इति
निर्देशो न तन्त्रं यत्तदोरुपलक्षणमेतत् । इहापि प्रतिषेध इष्यते । यकांयकाम-
धीमहे । तकांतकां पचाम इति ॥ यत्तदोः प्रतिषेधे त्यकन उपसंख्या-
नम् ॥ * ॥ उपत्यका । अधित्यका ॥ पावकादीनां छन्दस्युपसंख्यानम् ॥ * ॥
हिरण्यवर्णाः शुचयः पावकाः । यासु चलोमकाः । छन्दसीति किम् ।
पाचिका ॥ आशिषि चोपसंख्यानम् ॥ * ॥ जीवताद् जीवका । नन्दताद्
नन्दका । भवताद् भवका ॥ उत्तरपदलोपे चोपसंख्यानम् ॥ * ॥ देवदत्तिका ।
देवका । यज्ञदत्तिका । यज्ञका ॥ क्षिपकादीनां चोपसंख्यानम् ॥ * ॥ क्षिपका ।
ध्रुवका ॥ तारका ज्योतिष्युपसंख्यानम् ॥ * ॥ तारका । ज्योतिषीति किम् ।

  • परस्य माभूदित्यधिकं पुस्तकान्तरे ।
    ४५