काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 695, कुल 828 में से
संदर्भ में पढ़ें६२४ ॥ काशिका ॥ ७ ॥ ३ ॥
मार्ष्टव्यम् । मृजेरिति धातुग्रहणमिदं, धातोश्च कार्यमुच्यमानं धातुप्रत्ययएव
वेदितव्यम् । कंसपरिमृड्भ्यां कंसपरिमृद्भिरित्यत्र न भवति ॥
अचो ञ्णिति ॥ ११५ ॥
अजन्तस्याङ्गस्य ञिति णिति च वृद्धिर्भवति । ञिति । एकस्तण्डुलनि-
चायः । द्वौ शूर्पनिष्पावौ । कारः । हारः । णिति । गौः । गावौ । गावः ।
सखायौ । सखायः । जैत्रम् । यौत्रम् । क्षौद्रः । जयतेर्यातैश्च उणादयो बहु-
लमिति ष्ट्रन् प्रत्ययः । क्षवतेरपि क्षण् ॥
अत उपधायाः ॥ ११६ ॥
अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर्भवति । पाकः,
त्यागः, यागः । पाचयति । पाचकः । पाठयति । पाठकः । अत इति किम् ।
भेदंयति, भेदकः । उपधाया इति किम् । चकासयति तक्षकः ॥
तद्धितेष्वचामादेः ॥ ११७ ॥
तद्धिते ञिति णिति च प्रत्यये परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति ।
गार्ग्यः । वात्स्यः । दाक्षिः । प्राक्षिः । णिति । औपगवः । कापटवः । त्वाष्ट्रो
जागत इत्यत्राचामादिवृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते ॥
किति च ॥ ११८ ॥
किति च तद्धिते परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति । नडादिभ्यः
फक् । नाडायनः । चारायणः । प्राग्वहतेष्ठक् । आक्तिकः । शालाकिकः ॥
इति काशिकायां वृत्तौ सप्तमाध्यायस्य द्वितीयः पादः ॥
॥ अथ सप्तमाध्यायस्य तृतीयः पादः ॥
देविकाशिंशपादित्यवाडदीर्घसत्रश्रेयसामात् ॥ १ ॥
देविका शिंशपा दित्यवाट् दीर्घसत्र श्रेयस् इत्येतेषामङ्गानामाचामादे-
रचः स्थाने वृद्धिप्रसङ्गे आकारो भवति ञिति णिति किति तद्धिते परतः ।
देविकायां भवमुदकं, दाविकमुदकम् । देविकाकूले भवाः शालयः, दाविका-
कूलाः शालयः । पूर्वदेविका नाम प्राचां ग्रामः। तत्र भवः पूर्वदाविकः। प्राचां
ग्रामनगराणामित्युत्तरपदवृद्धिः साप्याकार एव भवति । शिंशपा । शिंशपाया
विकारश्चमसः, शांशपाचमसः । पलाशादिरयं तेन पक्षे अञ् अनुदात्तादिल-
क्षणो वा अञ् । शिंशपास्थले भवाः, शांशपास्थलाः । पूर्वशिंशपा नाम प्राचां
ग्रामः तत्र भवः पूर्वशांशपः । दित्यवाट् । दित्योह इदं, दात्योहम् । दीर्घसत्रे