सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 694, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 694

॥ काशिका ॥ ७ ॥ २ ॥ ६९३

सानां त्यदादीनामकृतसन्धीनामादेशा वक्तव्याः ॥ * ॥ परमाहम् । परमा-
यम् । परमानेन ।
अदसः सोर्भवेद्दौत्वं किं सुलोपे विधीयते ।
ह्रस्वाल्लुप्येत संबुद्धिने हलः प्रकृतं हि तत् ॥
आप एत्वं भवेत्तस्मिन् झलीत्यनुवर्तनात् ।
प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते ॥
इदमो मः ॥ १०८ ॥
इदमः सौ परतो मकारोन्तादेशो भवति । इयम् । अयम् । इदमो मका-
रस्य मकारवचनं त्यदाद्यत्वबाधनार्थम् ॥
दश्च ॥ १०९ ॥
इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः । इमौ ।
इमे । इमम् । इमौ । इमान् * ॥
यः सौ ॥ ११० ॥
इदमो मकारस्य यकारादेशो भवति सौ परतः । इयम् । उत्तरसूत्रे
पुंसीति वचनात्स्त्रियामयं यकारः ॥
इदो ऽय् पुंसि ॥ १११ ॥
इदम इद्रूपस्य पुंसि सौ परतो ऽय् इत्ययमादेशो भवति । अयं ब्राह्मणः ।
पुंसीति किम् । इयं ब्राह्मणी ॥
अनाप्यकः ॥ ११२ ॥
इदमो ऽककारस्य इद्रूपस्य स्थाने अन इत्ययमादेशो भवति आपि
विभक्तौ परतः । अनेन । अनयोः । अक इति किम् । इमकेन । इमकयोः ।
आपीति प्रत्याहारः तृतीयैकवचनात्प्रभृति सुपः पकारेण ॥
हलि लोपः ॥ ११३ ॥
हलादौ विभक्तौ परत इदमो ऽककारस्य इद्रूपस्य लोपो भवति । आभ्या-
म् । एभिः । एभ्यः । एषाम् । एषु । नानर्थके ऽलोन्त्यविधिरिति सर्वस्यायमि-
द्रूपस्य लोपः । अथ वा नायमिल्लोपः । अनाप्यक इति अन्ग्रहणमनुवर्तते † ॥
मृजेर्वृद्धिः ॥ ११४ ॥
विभक्ताविति निवृत्तम् । मृजेरङ्गस्य इको वृद्धिर्भवति । मार्ष्टि । मार्ष्टुम् ।

  • इह साविति न संबद्ध्यते, उत्तरसूत्रे साविति वचनादित्यधिकमेकस्मिन्पुस्तके ।
    † अथ वा नायमलोन्त्यलोप इति पा० २ पुस्तकान्तरे ।