सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 597, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 597

५८६ ॥ काशिका ॥ ६ ॥ ३ ॥
नलोपो नञः ॥ ७३ ॥
नञो नकारस्य लोपो भवत्युत्तरपदे । अब्राह्मणः । अवृषलः । असुरापः ।
असोमपः ॥ नञो नलोपो ऽवक्षेपे तिङ्युपसंख्यानम् ॥ * ॥ अपचसि त्वं जाल्म ।
अकरोषि त्वं जाल्म ॥
तस्मान्नुडचि ॥ ७४ ॥
तस्माल्लुप्तनकारान्नञः नुडागमो भवति अजादावुत्तरपदे । अनञः ।
अनश्वः । तस्मादिति किम् । नञ एव हि स्यात् । पूर्वान्ते हि ङमो ह्रस्वा-
दचि ङमुन्नित्यमिति प्राप्नोति ॥
नभ्राण्-नपात्नवेदानासत्या नमुचिनकुलनखनपुंस-
कनक्षत्रनक्रनाकेषु प्रकृत्या ॥ ७५ ॥
नभ्राट् नपात् नवेदाः नासत्याः नमुचि नकुल नख नपुंसक नक्षत्र नक्र
नाक इत्येतेषु नञ् प्रकृत्या भवति । न भ्राजतइति, नभ्राट् । भ्राजते क्विबन्तस्य
नङ्समासः । न पातीति, नपात् । पातिः शतृन्तः । न वेत्तीति नवेदाः । वेत्ति-
रसुनप्रत्ययान्तः । नासत्याः । सत्सु साधवः सत्याः न सत्या, असत्याः, न अस-
त्याः नासत्याः । न मुञ्चतीति, नमुचिः । मुचेरौणादिकः किप्रत्ययः । नास्य
कुलमस्ति, नकुलः । नख । नास्य खमस्तीति, नखम् । नपुंसक । न स्त्री न पुमा-
न्नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपात्यते । नक्षत्र । न तरते क्षीयतइति
वा, नक्षत्रम् । क्षियः क्षरतेर्वा क्षत्रमिति निपात्यते । नक्र। न क्रामतीति नक्रः ।
क्रमेर्डप्रत्ययो निपातनात् । नाक । नास्मिन्कमिति नाकम् ॥
एकादिश्चैकस्य चादुक् ॥ ७६ ॥
एकादिश्च नञ्प्रकृत्या भवति एकशब्दस्यादुगागमो भवति । एकेन न
विंशतिः एकान्नविंशतिः । एकान्नत्रिंशत् । तृतीयेति योगविभागात्समासः ।
पूर्वान्तोयमदुक् क्रियते । पदान्तलक्षणोत्रानुनासिको विकल्पेन यथा स्याद् इति ॥
नगो ऽप्राणिष्वन्यतरस्याम् ॥ ७७ ॥
नञ्प्रकृत्या भवति । नगा वृक्षाः । अगा वृक्षाः । नगाः पर्वताः । अगाः
पर्वताः । न गच्छन्तीति नगाः । गमेर्डप्रत्ययः । अप्राणिष्विति किम् । अगो
वृषलः शीतेन ॥
सहस्य सः संज्ञायाम् ॥ ७८ ॥
सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये । साश्वत्थम् ।
सपलाशम् । संशिंशपम् । संज्ञायामिति किम् । सहयुध्वा । सहकृत्वा । सादेश
उदात्तो निपात्यते । उदात्तानुदात्तवतो हि सहशब्दस्यान्तर्यतः स्वरितः स्यात् ।