काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 594, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ३ ॥ ५८३
पेषं वास वाहन धि इत्येतेषु चोत्तरपदेषु उदकस्य उद इत्ययमादेशो
भवति । उदपेषं पिनष्टि । स्नेहेन पिष इति णमुल् । वास । उदकस्य वासः,
उदवासः । वाहन । उदकस्य वाहन । उदवाहनः । उदकं धीयते ऽस्मिन्नि-
त्युदधिः ॥
एकहलादौ पूरयितव्ये ऽन्यतरस्याम् ॥ ५९ ॥
उदकस्योद इति वर्तते । एको, ऽसहायः तुल्यजातीयेनानन्तरेण हला-
दिना, हल् चादिर्यस्योत्तरपदस्य तदेकहलादिस्स्मिश्चैकहलादौ पूरयितव्य-
वाचिन्यन्यतरस्यामुदकस्य उद इत्ययमादेशो भवति । उदकुम्भः । उदककुम्भः ।
उदपात्रम् । उदकपात्रम् । एकहलादाविति किम् । उदकस्थालम् । पूरयितव्य-
इति किम् । उदकपर्वतः ॥
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ॥ ६० ॥
मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषूत्तरपदेषू-
दकस्य उद इत्ययमादेशो भवति अन्यतरस्याम् । उदकेन मन्थ, उदमन्यः ।
उदकमन्थः । उदकेनौदन, उदौदनः । उदकौदनः । सक्तुउदकेन सक्तः,
उदसक्तुः । उदकसक्तुः । बिन्दु । उदकस्य बिन्दुः, उदबिन्दुः । उदकबिन्दुः ।
वज्र । उदकस्य वज्रः, उदवज्रः । उतकवज्रः । भार । उदकं बिभर्तीति,
उदभारः । उदकभारः । हार । उदकं हरतीति, उदहारः । उदकहारः ।
वीवध । उदकस्य वीवध, उदवीवधः । उदकवीवधः । गाह । उदकं गाहत-
इति, उदगाहः । उदकगाहः ॥
इको ह्रस्वो ऽङ्यो गालवस्य ॥ ६१ ॥
इगन्तस्याङ्यन्तस्योत्तरपदे ह्रस्वो भवति गालवस्याचार्यस्य मतेनान्यतर-
स्याम् । ग्रामणिपुत्रः । ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः । ब्रह्मबन्धूपुत्रः । इक
इति किम् । खट्वापादः । मालापादः । अङ्य इति किम् । गार्गीपुत्रः ।
वात्सीपुत्रः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामिति हि वर्तते । व्यवस्थि-
तविभाषा चेयम् । तेनेह न भवति । कारीषगन्धीपतिरिति । इयङुवङ्भा-
विनामव्ययानां च न भवति । स्त्रीकुलम् । भ्रूकुलम् । काण्डोद्भूतम् । वृषली-
भूतम् । भ्रुकुंसादीनां तु भवत्येव । भ्रुकुंसः । भ्रुकुटिः । अपर आह ॥ भ्रुकुं-
सादीनामकारो भवतीति वक्तव्यम् ॥ * ॥ भुकुंसः । भुकुटिः ॥
एकं तद्धिते च ॥ ६२ ॥
एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति । एकस्या आगतमेकरूप्यम् ।
एकमयम् । एकस्या भाव, एकत्वम् । एकता । उत्तरपदे । एकस्याः क्षीरम्,
३८