काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 593, कुल 828 में से
संदर्भ में पढ़ें३८२ ॥ काशिका ॥ ६ ॥ ३ ॥
रपदेषु । पादाभ्यामवतीति, पदाजिः । पादाभ्यामततीति, पदातिः । अज्या-
तिभ्यां पादे चेत्यौणादिक इत्प्रत्ययः । तत्राजेर्वीभावो न भवत्यत एव निपा-
तनात् । पादाभ्यां गच्छतीति, पदगः । पादेनोपहतः, पदोपहतः । पादशब्दो
वृषादित्वादाद्युदात्तस्तस्य स्थाने पदादेश उपदेशएवान्तोदात्तो निपात्यते,
तेन पदोपहत इति तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वेनान्तोदात्तत्वं
भवति । पदाजिः पदातिः पदग इत्येतेषु कृत्स्वरेण समासस्यैवान्तोदात्तत्वम् ॥
पद्यत्यतदर्थे ॥ ५३ ॥
यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे । पादौ विध्यन्ति,
पद्याः शर्कराः । पद्याः कण्टकाः । अतदर्थेति किम् । पादार्थमुदकं पाद्यम् ॥
पद्भावे इके चरतावुपसंख्यानम् ॥ * ॥ पादाभ्यां चरति, पदिकः । पर्णादिभ्यः
ष्ठञिति पादशब्दात् ष्ठन्प्रत्ययः ॥ शरीरावयववचनस्य पादशब्दस्य ग्रहणमिह
दृश्यते ॥ तेन पञ्चपादमाषशतावद् इत्यत्र पदादेशो न भवति । द्विपाद्यम् ।
त्रिपाद्यम् ॥
हिमकाषिद्धतिषु च ॥ ५४ ॥
हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययमादेशो भवति ।
हिम । पद्धिमम् । काषिन् । अद्य पत्काषिणो यान्ति । हति । पद्धतिः ॥
ऋचः शे ॥ ५५ ॥
ऋक्संबन्धिनः पादशब्दस्य शे परतः पदित्ययमादेशो भवति । पच्छो
गायत्रीं शंसति । पादंपादं शंसतीति संख्यैकवचनाच्च वीप्सायामिति शस-
त्प्रत्ययः । ऋच इति किम् । पादशः कर्षापणं ददातीति ॥
वा घोषमिश्रशब्देषु ॥ ५६ ॥
घोष मिश्र शब्द इत्येतेषु चोत्तरपदेषु पादस्य वा पदित्ययमादेशो
भवति । पद्धोषः । पादघोषः । पद्मिश्रः । पादमिश्रः । पच्छब्दः । पाद-
शब्दः । निष्के चेति वक्तव्यम् ॥ * ॥ पद्निष्कः । पादनिष्कः ॥
उदकस्योदः संज्ञायाम् ॥ ५७ ॥
उदकशब्दस्य संज्ञायां विषये उद इत्ययमादेशो भवति उत्तरपदे परतः ।
उदमेघो नाम यस्य औदमेघिः पुत्रः । उदवाहो नाम यस्य औदवाहिः पुत्रः ।
संज्ञायामिति किम् । उदकगिरिः ॥ संज्ञायामुत्तरपदस्य उदकशब्दस्य उदादेशो
भवतीति वक्तव्यम् ॥ * ॥ लोहितोदः । नीलोदः । क्षीरोदः ॥
पेषंवासवाहनधिषु च ॥ ५८ ॥