सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 569, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 569

३६८ ॥ काशिका ॥ ६ ॥ २ ॥
दायुदात्तत्वं वक्ष्यति। शचीपतिः। शचीशब्दः हृदिकारादक्तिन् इति ङीष्-
न्तात्वादन्तोदात्तः। के चित्तु शार्ङ्गरवादिषु पठन्ति तेषामाद्युदात्तः। तनून-
पात्। तनोतेरौणादिक उप्रत्ययस्तेन तनूशब्दोऽन्तोदात्तः। न पाति न पाल-
यति वा नपात् क्विबन्तः। नभ्राण्नपादित्यादिना ऽऽद्युदात्तो निपातितः।
तन्वा नपात्, तनूनपात्। नराशंसः। नरा अस्मिन्नासीनाः शंसन्ति नरा इमं
शंसन्तीति वा नराशंसः। नॄ नये। ऋबन्तो नरशब्द आद्युदात्तः। शंसशब्दोऽपि
घञन्तः। अन्येषामपि दृश्यतइति दीर्घत्वम्। शुनःशेपः। शुनव शेपो ऽस्येति
बहुव्रीहिः। तत्र शेपपुच्छलाङ्गूलेषु शुनः संज्ञायामिति षष्ठ्या अलुक्। उभावौ-
द्युदात्तौ। शण्डावर्कौ। शण्डामर्कशब्दौ घञन्तत्वादाद्युदात्तौ। तयोर्द्वन्द्वे ऽन्ये-
षामपि दृश्यतइति दीर्घत्वम्। तृष्णावरूत्री। तृष्णाशब्द आद्युदात्तः। वरूत्रीशब्दो
ऽसितादिसूत्रे निपातितोऽन्तोदात्तः। तत्र द्वन्द्वे दीर्घत्वं पूर्ववत्। बम्बावि-
श्ववयसौ। बम्बशब्दोऽन्तोदात्तः। विश्ववयःशब्दोपि बहुव्रीहिः। विश्वं संज्ञाया-
मिति विश्वशब्दोऽन्तोदात्तः। तयोर्द्वन्द्वे दीर्घत्वं पूर्ववत्। मर्मृत्युः। मरिति
मृञो विप्प्रत्ययः। मृत्युशब्दोऽन्तोदात्तः। द्वन्द्वानामदेवताद्वन्द्वार्थो ऽनुदात्ताद्यु-
त्तरपदार्थश्च वनस्पत्यादिषु पाठः॥
देवताद्वन्द्वे च ॥ १४१ ॥
देवतावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः।
इन्द्रासोमौ। इन्द्रावरुणौ। इन्द्राबृहस्पती। ऋजेन्द्रेयेति इन्द्रशब्द आद्यु-
दात्तो निपातितः। सोम इति मन्प्रत्ययान्तः *। वरुण उनन्प्रत्ययान्तस्तेना-
द्युदात्तः। बृहस्पतिशब्दे वनस्पत्यादित्वाद् द्वावुदात्तौ, तेनेन्द्राबृहस्पती इत्यत्र
त्रय उदात्ता भवन्ति। देवताग्रहणं किम्। प्लक्षन्यग्रोधौ। द्वन्द्वग्रहणं किम्।
अग्निष्टोमः॥
नोत्तरपदे ऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ॥ १४२ ॥
उत्तरपदे ऽनुदात्तादौ पृथिवीरुद्रपूषमन्थिवर्जिते देवताद्वन्द्वे नोभे युग-
पत्प्रकृतिस्वरे भवतः। इन्द्राग्नी। इन्द्रवायू। अग्निवायुशब्दावन्तोदात्तौ।
उत्तरपदग्रहणमनुदात्तादावित्यउत्तरपदविशेषणं यथा स्याद् द्वन्द्वविशेषणं मा
भूदिति। अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम्। अपृथिव्यादि-
ष्विति किम्। द्यावापृथिव्यौ। द्यावाशब्द आद्युदात्तो निपातितः। पृथिवी-
शब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः। रुद्र। सोमारुद्रौ। रोदेर्णिलुक् चेति
रुद्रशब्दो रक्प्रत्ययान्तोऽन्तोदात्तः। पूषन्। इन्द्रापूषणा। श्वन्नुक्षन्पूषन्निति पूष-

  • नित्याद्याद्युदात्त इत्यधिकमत्रास्ति ।