काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 562, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ २ ॥ ५६१
• • दात्तानि भवन्ति । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालाबिलम् ।
कुसूलादिग्रहणं किम् । सर्पबिलम् । बिलइति किम् । कुसूलस्वामी ॥
दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ॥ १०३ ॥
दिक्शब्दाः पूर्वपदानि अन्तोदात्तानि भवन्ति ग्रामजनपदाख्यानवा-
चिषूत्तरपदेषु चानराटशब्दे च । पूर्वेषुकामशमी । अपरेषुकामशमी । पूर्वकृष्ण-
मृत्तिका । अपरकृष्णमृत्तिका । जनपद । पूर्वपञ्चालाः । अपरपञ्चालाः । आ-
ख्यान । पूर्वाधिरामम् * । पूर्वयायातम् । अपरयायातम् । अधिराममधिकृत्य
कृतो ग्रन्थ आधिरामम् । तथा यायातम् । चानराट । पूर्वचानराटम् । अपर-
चानराटम् । शब्दग्रहणं कालवाचिनोपि दिक्शब्दस्य परिह्यार्थम् ॥
आचार्योपसर्जनश्चान्तेवासिनि ॥ १०४ ॥
आचार्योपसर्जननान्तेवासिवाचिन्युत्तरपदे दिक्शब्दा अन्तोदात्ता भव-
न्ति । पूर्वपाणिनीयाः । अपरपाणिनीयाः । पूर्वकाशकृत्स्नाः । अपरकाशकृत्स्नाः ।
आचार्योपसर्जन इति किम् । पूर्वशिष्याः । अन्तेवासिनीति किम् । पूर्वपाणि-
नीयं शास्त्रम् ॥
उत्तरपदवृद्धौ सर्वं च ॥ १०५ ॥
उत्तरपदस्येत्यधिकृत्य या विहिता वृद्धिस्तदुत्तरपदे सर्वशब्दो दिक्-
शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । पूर्वपाञ्चालकः । उत्तरपाञ्चा-
लकः । सुसर्वार्द्धाद्दिक्शब्देभ्यो जनपदस्येति तदन्तविधिना जनपदलक्षणो वुञ्-
प्रत्ययः । सुसर्वार्द्धाज्जनपदस्य दिशि मद्राणामिति चोत्तरपदवृद्धिः । अधिका-
रलक्षणादिह न भवति सर्वमासः सर्वकारक इति ॥
बहुव्रीहौ विश्वं संज्ञायाम् ॥ १०६ ॥
बहुव्रीहौ समासे विश्वशब्दः पूर्वपदं संज्ञायां विषये ऽन्तोदात्तं भवति ।
विश्वदेवः । विश्वयशाः । विश्वमहान् । पूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तत्वं
प्राप्तम् । बहुव्रीहाविति किम् । विश्वे च ते देवाः, विश्वदेवाः । संज्ञाया-
मिति किम् । विश्वे देवा अस्य विश्वदेवः । विश्वामित्रो विश्वाजिन्नित्यत्र
संज्ञायां मित्राजिनयोरित्येतद्भवति परत्वात् । बहुव्रीहावित्येतदधिक्रियते प्राग-
व्ययीभावसंज्ञानात् ॥
उदराश्वेषुषु ॥ १०७ ॥
॰ ॰ ॰ उदर अश्व इषु इत्येतेषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्व-
- पूर्वाधिराममिति चाधिकं मन्ये ।
३६