काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 531, कुल 828 में से
संदर्भ में पढ़ें२३० ॥ काशिका ॥ ६ । १ ॥
सावेकाच इति ऊहिदम्पदाद्यप्सुमैद्युभ्य इति वा प्राप्तिः प्रतिषिध्यते ।
झलीति किम् । दिवा ॥
नृ चान्यतरस्याम् ॥ १८४ ॥
नृ इत्येतस्मात्परा झलादिर्विभक्तिरन्यतरस्यां नोदात्ता भवति । नृभ्याम् ।
नृभिः । नृभ्यः । नृषु । झलीत्येव । न्रा । न्रे ॥
तित्स्वरितम् ॥ १८५ ॥
तित्स्वरितं भवति । सवन्ताव्द्यत् । चीकीर्यम् । जिहीर्यम् । ऋहलो-
र्ण्यत् । कार्यम् । हार्यम् । प्रत्ययाद्युदात्तस्यापवादः ॥
तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदा-
त्तमह्वन्विङोः ॥ १८६ ॥
तासेरनुदात्तेतो ङितो ऽकारान्तोपदेशाच्च शब्दात्परं लसार्वधातुकम-
नुदात्तं च भवति ह्वङ् इन् इत्याभ्यां परं वर्जयित्वा । तासेस्तावत् । कर्त्ता ।
कर्त्तारौ । कर्त्तारः । प्रत्ययस्वरापवादोयम् । अनुदात्तेतः । आस । आस्ते ।
वस । वस्ते । ङित् । सूङ् । सूते । शीङ् । शेते । अदुपदेशात् । तुदतः ।
नुदतः । पचतः । पठतः । अनुबन्धस्यानैकान्तिकत्वादकारान्तोपदेशएव शप् ।
पवमानः । यजमानः । यद्यत्र मुक् अकारमात्रस्य स्यात् तदा लसार्वधातुक-
मदुपदेशादनन्तरमिति सिद्धो निघातः । अथाकारान्तस्याङ्गस्य, तथापि लसा-
र्वधातुकानुदात्तत्वे कर्त्तव्ये बहिरङ्गत्वादसिद्ध इति सिद्धम् । चित्स्वरोप्यनेन
लसार्वधातुकानुदात्तत्वेन परत्वाद्बाध्यते । तास्यादिभ्य इति किम् । चिनुतः ।
चिन्वन्ति । ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य । उपदेशग्रहणं किम् ।
इह च यथा स्यात् पचावः पचाम इति । इह च मा भूत् हतो हथ इति ।
लग्रहणं किम् । कतीह पवमानाः । सार्वधातुकमिति किम् । शिश्ये ।
शिश्याते । शिश्यिरे । अह्वन्विङोरिति किम् । हुते । यदधीते ॥
आदिः सिचो ऽन्यतरस्याम् ॥ १८७ ॥
उदात्त इति वर्तते । सिजन्तस्यान्यतरस्यामादिरुदात्तो भवति । मा
हि कार्ष्टाम् । मा हि काष्टाम् । एकोत्राद्युदात्तः । अपरो ऽन्तोदात्तः ।
मा हि लाविष्टाम् । २ । एकोत्राद्युदात्तः । अपरो मध्योदात्तः । सिचश्चित्-
त्त्वादिडागमानुदात्तत्वं हि बाध्यते ॥ सिच आद्युदात्तत्वे ऽनिटः पितः
उदात्तत्वं वक्तव्यम् ॥ * ॥ मा हि कार्षम् । २ । अनिट इति किम् । मा
हि लाविषम् । २ । मध्योदात्त एवाद्युदात्ताभावपक्षे भवति ॥
स्वपादिहिंसामच्यनिटि ॥ १८८ ॥