सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 522, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 522

॥ काशिका ॥ ६ । १ ॥ ४२१

••• अपरस्परा इति सुट् निपात्यते क्रियासातत्ये गम्यमाने । अपरस्पराः
सार्था गच्छन्ति । सन्ततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियासातत्येति किम् ।
अपरपराः सार्था गच्छन्ति । अपरे परे च सकृदेव गच्छन्तीत्यर्थः । नात्र गम-
नस्य सातत्यं प्रबन्धो विवक्षितः । किमिदं सातत्यमिति । सततस्य भावः सात-
त्यम् । कथं सततम्, समस्ते विकल्पेन मकारलोपो विधीयते ।
लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि ।
समो वा हितततयोर्मांसस्य पचिद्युड्घवजोः ॥
गोष्पदं सेवितासेवितप्रमाणेषु ॥ १४५ ॥
गोष्पदमिति सुट् निपात्यते तस्य च षत्वं सेविते ऽसेविते प्रमाणे च
विषये । गोष्पदो देशः । गावः पद्यन्ते यस्मिन् देशे स गोभिः सेवितो देशो गो-
ष्पद इत्युच्यते । असेविते । अगोष्पदान्यरण्यानि । असेविते गोष्पदशब्दो न संभव-
तीत्यगोष्पदशब्दार्थं निपातनम् । यद्येवं नार्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं
भविष्यति । सत्यमेतत् । यत्र तु सेवितप्रसङ्गोऽस्ति तत्रैव स्यादगोष्पदमिति ।
यत्र त्वत्यन्तासंभव एव तत्र न स्यादगोष्पदान्यरण्यानीति । असेवितग्रहणात्-
त्तापि भवति । यानि हि महान्त्यरण्यानि येषु गवामत्यन्तासंभवस्तान्येवमु-
च्यन्ते । प्रमाणे । गोष्पदमात्रं क्षेत्रम् । गोष्पदपूरं वृष्टो देवः । नात्र गोष्पदं
स्वार्थप्रतिपादनार्थमुपादीयते, किं तर्हि क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम् ।
सेवितासेवितप्रमाणेष्विति किम् । गोः पदं, गोपदम् ॥
आस्पदं प्रतिष्ठायाम् ॥ १४६ ॥
आत्म्यापनाय स्थानं प्रतिष्ठा, तस्यामास्पदमिति सुट् निपात्यते ।
आस्पदमनेन लब्धम् । प्रतिष्ठायामिति किम् । आपदात्, आपदम् ॥
आश्चर्यमनित्ये ॥ १४७ ॥
अनित्यतया विषयभूतया ऽद्भुतत्वमिह लक्ष्यते तस्मिन्नाश्चर्यं निपात्यते ।
चरेराङि चागुराविति यत्प्रत्यये कृते निपातनात्सुट् । आश्चर्यं यदि स भुञ्जी-
त । आश्चर्यं यदि सो ऽधीयीत । चित्रमद्भुतमित्यर्थः । अनित्यइति किम् ।
आचर्यं कर्म शोभनम् ॥
वर्चस्के ऽवस्करः ॥ १४८ ॥
कुत्सितं वर्चो, वर्चस्कमवमलं, तस्मिन्नभिधेये ऽवस्कर इति निपात्यते ।
अवपूर्वस्य किरतेः कर्मणि ऋदोरप् इत्यप्, निपातनात्सुट् । अवकीर्यतइत्यव-
स्करो ऽवमलम् । तत्सम्बन्धाद्देशोपि तथोच्यते । वर्चस्करइति किम् । अवकरः ॥
अपस्करो रथाङ्गम् ॥ १४९ ॥