सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 521, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 521

५२० ॥ काशिका ॥ ६ । १ ॥
भवति । तन्न नः संस्कृतम् । तन्न नः परिष्कृतम् । तन्न न उपस्कृतम् । समुदि-
तमित्यर्थः ॥
उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु ॥ १३९ ॥
सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रति-
यत्नः । विकृतमेव वैकृतम् । प्रज्ञादित्वादण् । गम्यमानार्थस्य वाक्यस्य स्वरूपे-
णोपादानं वाक्यस्याध्याहारः । एतेष्वर्थेषु गम्यमानेषु करोतौ धातौ परत उपात्
सुट् कात्पूर्वो भवति । प्रतियत्ने तावत् । एधोदकस्योपस्कुरुते । काष्ठगुडस्यो-
पस्कुरुते । वैकृते । उपस्कृतं भुङ्क्ते । उपस्कृतं गच्छति । वाक्याध्याहारे । उप-
स्कृतं जल्पति । उपस्कृतमधीते । एतेष्विति किम् । उपकरोति ।
किरतौ लवने ॥ १४० ॥
उपादित्येव । उपादुत्तरस्मिन्किरतौ धातौ लवनविषये सुट् कात्पूर्वो
भवति । उपस्कारं मद्राका लुनन्ति । उपस्कारं काश्मीरका लुनन्ति । विक्षिप्य
लुनन्तीत्यर्थः ॥ णमुलञ्च वक्तव्यः ॥ * ॥ लवन इति किम् । उपकिरति देवदत्तः ॥
हिंसायां प्रतेश्च ॥ १४१ ॥
किरतावित्येव । उपात्प्रतेश्चोत्तरस्मिन्किरतौ विषये सुट् कात्पूर्वो भव-
ति । उपस्कीर्णं हं ते वृषल भूयात् । प्रतिस्कीर्णं हं ते वृषल भूयात् । तथा
ते वृषल विक्षेपो भूयाद् यथा हिंसामनुबध्नातीत्यर्थः । हिंसायामिति किम् ।
प्रतिकीर्णम् ॥
अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ १४२ ॥
किरतावित्येव । अपादुत्तरस्मिन्किरतौ चतुष्पाच्छकुनिषु यदालेखनं
तस्मिन् विषये सुट् कात्पूर्वो भवति । अपस्करते वृषभो हृष्टः । अपस्करते
कुक्कुटो भक्ष्यार्थी । अपस्करते श्वा चाश्रयार्थी । आलिख्य विक्षिपतीत्यर्थः ।
चतुष्पाच्छकुनिष्विति किम् । अपकिरति देवदत्तः ॥ हर्षजीविकाकुलायकरणे-
ष्विति वक्तव्यम् ॥ * ॥ इह मा भूत् । अपकिरति श्वा ओदनपिण्डमाशितः ॥
हर्षजीविकाकुलायकरणेष्वेव किरतेरात्मनेपदस्योपसंख्यानम् ॥ * ॥
कुस्तुम्बुरूणि जातिः ॥ १४३ ॥
कुस्तुम्बुरूणीति सुट् निपात्यते जातिश्चेद्भवति । कुस्तुम्बुरुर्नौषधि-
जातिः । धान्यकम् । तत्फलान्यपि कुस्तुम्बुरूणि । सूत्रनिर्देशे नपुंसकलिङ्गमवि-
वक्षितम् । जातिरिति किम् । कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि तुम्बुरुशब्दे-
नात्र तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा ॥
अपरस्पराः क्रियासातत्ये ॥ १४४ ॥