सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 412, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 412

॥ काशिका ॥ ५ ॥ २ ॥ ४०६
सर्वचर्मणः कृतः खखञौ ॥ ५ ॥
सर्वचर्मन्शब्दात्तृतीयासमर्थात्कृत इत्यस्मिन्नर्थे खखञौ प्रत्ययौ भवतः ।
सर्वशब्दश्चात्र प्रत्ययार्थेन कृतेन संबध्यते, न चर्मणा । तत्रायमसामर्थ्यसमासो
द्रष्टव्यः । सर्वचर्मणा कृत इत्येतस्मिन्वाक्यार्थे वृत्तिः । सर्वचर्मीणः । सार्व-
चर्मीणः ॥
यथामुखसंमुखस्य दर्शनः खः ॥ ६ ॥
यथामुखशब्दात्संमुखशब्दात्षष्ठीसमर्थाद्दर्शन इत्येतस्मिन्नर्थे खः प्रत्ययो
भवति । दृश्यते ऽस्मिन्निति दर्शनः । आदर्शादिः प्रतिबिम्बाश्रय उच्यते ।
निपातनात्सा दृश्ये ऽव्ययीभावः । यथामुखं दर्शनः, यथा मुखीनः । सर्वस्य
मुखस्य दर्शनः, सम्मुखीनः ॥
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ॥ ७ ॥
[L13