सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 411, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 411

४०८ ॥ काशिका ॥ ५ । २ ॥
वह्नीयम् । ब्राह्मणाच्छंसीयम् । आग्नीध्रम् । प्रतिप्रस्थात्रीयम् । त्वष्ट्रीयम् ।
पोत्रीयम् । बहुवचनं स्वरूपविधिनिरासार्थम् ॥
ब्रह्मणस्त्वः ॥ १३६ ॥
होत्राभ्य इत्यनुवर्त्तते । ब्रह्मन्शब्दाद्धोत्रावाचिनस्त्वः प्रत्ययो भवति
भावकर्मणोः । छस्यापवादः । ब्रह्मणो भावः कर्म वा, ब्रह्मत्वम् । नेति
वक्तव्ये त्ववचनं तलो बाधनार्थम् । यस्तु जातिशब्दो ब्राह्मणपर्यायो ब्रह्मन्-
शब्दस्तस्त्वतलौ भवत एव । ब्रह्मत्वम् । ब्रह्मता । भवनावधिकयोर्नञ्स्न-
ञोरधिकारः समाप्तः ॥
॥ इति काशिकायां वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥
॥ अथ पञ्चमाध्यायस्य द्वितीयः पादः ॥
धान्यानां भवने क्षेत्रे खञ् ॥ १ ॥
निर्देशादेव समर्थविभक्तिः । धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यो भव-