सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 241, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 241

२३४ ॥ काशिका ॥ ३ ॥ ४ ॥
ओदनं भुङ्क्त्वा सक्तून्पिब धानाः खादेत्येवायमभ्यवहरति । सर्वविशेषानुप्रयोगनि-
वृत्त्यर्थं वचनम् । लाघवं च लौकिके शब्दव्यवहारे नाद्रियते । आष्ट्रमट मठमट
खदूरमट स्थाल्यपिधानमटेत्येवायमटतीत्यत्रापि कारकभेदात् क्रियाभेदे सति
सामान्यवचनता सम्भवत्येव ॥
छन्दसि लुङ्लङ्लिटः ॥ ६ ॥
धातुसम्बन्धे इत्येव । छन्दसि विषये धातुसम्बन्धे सर्वेषु कालेषु लुङ्लङ्-
लिटः प्रत्यया भवन्ति । अन्यतरस्यामिति वर्तते । तेनान्येपि लकारा यथायथं
भवन्ति । लुङ् । शकलाङ्गुष्ठकोकरत् । अहं तेभ्योकरं नमः । लङ् । अग्निमद्य
होतारमवृणीतायं यजमानः । लिट् । अद्या ममार । अद्य म्रियते ॥
लिङर्थे लेट् ॥ ७ ॥
छन्दस्यन्यतरस्यामिति वर्तते । लिङर्थे यत्र लिङ् विधीयते विध्यादिर्हेतु-
हेतुमतोर्लिङित्येवमादिस्तत्र छन्दसि विषये ऽन्यतरस्यां लेट् प्रत्ययो भवति ।
जोषिषत् । तारिषत् । मन्दिषत् । नेता नेषत् । तत्त्विषत् । पताति दिद्युत् ।
उदधिं प्याषयाति ॥
उपसंवादाशङ्कयोश्च ॥ ८ ॥
उपसंवादः परिभाषणं, कर्मण्ये पणबन्धः । यदि मे भवानिदं कुर्याद्
अहमपि भवतइदं दास्यामीति । कारकतः कार्यानुसरणं तर्के उत्प्रेक्षा आशङ्का ।
उपसंवादे आशङ्कायां च गम्यमानायां छन्दसि विषये लेट् प्रत्ययो भवति । उप-
संवादे । अहमेव पशूनामीशै । मय्येव वो यहायक्षान्तै इति । मद्देवत्या-
न्येव वः पात्राण्युच्यन्तै। आशङ्कायां च। नेज्जिह्मयान्तो नरकं पताम। जिह्म-
चरखेन नरकपात माशङ्कते । लिङर्थेणवायं नित्यार्थं तु वचनम् । पूर्वसूत्रे ऽन्य-
तरस्यामिति वर्तते ॥
तुमर्थे सेसेनसेत्त्वसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्-
शध्यैशध्यैन्तवैतवेङ्तवेनः ॥ ९ ॥
छन्दसीत्येव । तुमुनो ऽर्थस्तुमर्थः । तत्र छन्दसि विषये धातोः सर्वा-
दयः प्रत्यया भवन्ति । तुमर्थो भावः । कथं ज्ञायते । वचनसामर्थ्यात् । ताव-
दयं कर्तुरपकृष्यते । न चान्यस्मिन्नर्थे तुमुन्नादिश्यते । अनिर्दिष्टार्थाश्च प्रत्ययाः
स्वार्थे भवन्ति स्वार्थश्च धातूनां भाव एव । से । वक्षे रायः । सेन् । ता वामद्ये
रथानाम् । असे । असेन् । ऋत्वे दत्ताय जीवसे । स्वरे विशेषः । क्से । क्सेन् ।
प्रेषे भगाय । श्रियसे । अध्यै । अध्यैन् । कर्मण्युपाचरध्यै । स्वरे विशेषः । क-
ध्यै । इन्द्राग्नी आहुवध्यै । कध्यैन् । श्रियध्यै । शध्यै । शध्यैन् । पिबध्यै । ग्रह