सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 240, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 240

॥ काशिका ॥ ३ ॥ ४ ॥ २३३

यमधीते। इमावधीयाते। इमे ऽधीयते। अधीष्वाधीष्वेत्येव त्वमधीषे। युवामधी-
याथे। यूयमधीध्वे। अथ वा अधीध्वमधीध्वमित्येव यूयमधीध्वे। अधीष्वाधीष्वे-
त्येवाहमधीये। आवामधीवहे। वयमधीमहे। एवं सर्वेष्वेव लकारेषूदाहार्यम् ।
क्रियासमभिहाराभिव्यक्तौ द्विवचनमयं लोडपेक्षते क्रियासमभिहारे द्वे भवत इति ।
यङ्प्रत्ययः पुनरस्मिन्नेवार्थे विधीयमानः स्वयमेव शक्तत्वाद्वापेक्षते द्विवचनम् ॥
समुच्चये ऽन्यतरस्याम् ॥ ३ ॥
अनेकक्रियाध्याहारः समुच्चयः । समुच्चीयमानक्रियावचनाद्धातो रन्यत-
रस्यां लोट् प्रत्ययो भवति । तस्य लोटो हिस्वावादेशौ भवतः । तद्धंभाविन-
स्तु वा भवतः । भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येवायमटति ।
इमावटतः। इमे ऽटन्ति। भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येव त्वम-
टसि । युवामटथः । यूयमटथ । अथ वाभ्राष्ट्रमटत मठमटत खदूरमटत स्थाल्यपि-
धानमटतेत्येव यूयमटथ। भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येवाहम-
टामि । आवामटावः । वयमटामः । अथ वा भ्राष्ट्रमटति मठमटति खदूरमटति
स्थाल्यपिधानमटति इत्येवायमटति । इमावटतः । इमे ऽटन्ति । भ्राष्ट्रमटसि
मठमटसि खदूरमटसि स्थाल्यपिधानमटसि इत्येव त्वमटसि । युवामटथः ।
यूयमटथ । भ्राष्ट्रमटामि मठमटामि खदूरमटामि स्थाल्यपिधानमटामीत्येवाहम-
टामि । आवामटावः । वयमटामः । छन्दोधीष्व व्याकरणमधीष्व निरुक्तमधी-
ष्वेत्येवायमधीते । इमावधीयाते । इमे ऽधीयते । छन्दोधीष्व व्याकरणमधीष्व
निरुक्तमधीष्वेत्येव त्वमधीषे । युवामधीयाथे । यूयमधीध्वे । अथ वा छन्दो-
धीध्वं व्याकरणमधीध्वं निरुक्तमधीध्वमित्येव यूयमधीध्वे। छन्दोधीष्व व्याक-
रणमधीष्व निरुक्तमधीष्वेत्येवाहमधीये । आवामधीवहे । वयमधीमहे । अथ
वा व्याकरणमधीते छन्दोधीते निरुक्तमधीते इत्येवायमधीते । इमावधीयाते ।
इमे ऽधीयते । छन्दोधीषे व्याकरणमधीषे निरुक्तमधीषे इत्येव त्वमधीषे । युवा-
मधीयाथे । यूयमधीध्वे । छन्दोधीये व्याकरणमधीये निरुक्तमधीयइत्येवाहम-
धीये । आवामधीवहे । वयमधीमहे ॥
यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ४ ॥
पूर्वस्मिन् लोद्विधाने यथाविध्यनुप्रयोगो भवति । यस्माद्धातोर्लोद्विधि-
स्तस्य एव धातुरनुप्रयोक्तव्यः । धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव ।
यथाविध्यर्थं तु वचनम् । तथा चैवोदाहृतम् । लुनीहिलुनीहीत्येवायं लुनातीति।
छिनत्तीति नानुप्रयुज्यते । अधीष्वाधीष्वेत्येवायमधीते । पठतीति नानुप्रयुज्यते ॥
समुच्चये सामान्यवचनस्य ॥ ५ ॥
द्वितीये लोद्विधाने समुच्चये सामान्यवचनस्य धातोरनुप्रयोगः कर्तव्यः ।