सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 238, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 238

॥ काशिका ॥ ३ ॥ ३ ॥ २३१
आवश्यकाधमर्ण्ययोर्णिनिः ॥ १७० ॥
अवश्यं भाव आवश्यकम् । उपाधिर्यं नोपपदम् । अवश्यंभावविशिष्टे
आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोर्णिनिः प्रत्ययो भवति । अवश्यंकारी ।
मयूरव्यंसकादित्वात्समासः । आधमर्ण्ये खल्वपि । शतंदायी । सहस्रदायी ।
निष्कंदायी ॥
कृत्याश्च ॥ १७१ ॥
आवश्यकाधमर्ण्ययोरिति वर्तते । कृत्यसंज्ञकाश्च प्रत्यया आवश्यका-
धमर्ण्ययोरुपाधिभूतयोर्धातोर्भवन्ति । भवता खलु अवश्यं कटः कर्तव्यः ।
अवश्यं करणीयः । अवश्यं कार्यः । अवश्यं कृत्यः । आधमर्ण्ये । भवता शतं
दातव्यम् । सहस्रं देयम् । किमर्थमिदम् । यावता सामान्येन विहिता अस्मि-
न्नपि विषये भविष्यन्ति । विशेषविहितेन णिनिना बाध्येरन् । कर्तरि णिनिः ।
भावकर्मणोः कृत्याः । तत्र कुतो बाधप्रसङ्गः । तत्र के चिदाहुः । भव्यगेया-
दयः कर्तृवाचिनः कृत्यास्तद्भोदाहरणमिति ॥
शकि लिङ् च ॥ १७२ ॥
शक्नोति प्रकृत्यर्थविशेषणम् । शक्त्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो
भवति । चकारात्कृत्याश्च । भवता खलु भारो वोढव्यः । वहनीयः । वाह्यः ।
भवान् खलु भारं वहेत् । भवानिह शक्तः । सामान्यविहितानां पुनर्वचनं लिङा
बाधा मा भूदिति ॥
आशिषि लिङ्लोटौ ॥ १७३ ॥
आशंसनमाशीः । अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा । प्रकृत्यर्थविशेषणं
चैतत् । आशीर्विशिष्टे वर्तमानाद्धातोर्लिङ्लोटौ प्रत्ययौ भवतः । चिरं जीया-
द्भवान् । चिरं जीवतु भवान् । आशिषीति किम् । चिरं जीवति देवदत्तः ॥
क्तिच्क्तौ च संज्ञायाम् ॥ १७४ ॥
आशिषीत्येव । आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः समु-
दायेन चेत्संज्ञा गम्यते । तनुतात् तन्तिः । सनुतात् सातिः । भवतात् भूतिः ।
मनुतात् मन्तिः । क्तः खल्वपि । देवा एनं देयासुर्देवदत्तः । सामान्येन विहितः
क्तः पुनरुच्यते क्तिचा बाधा मा भूदिति । चकारो विशेषणार्थः न क्तिचि दीर्घश्चेति ॥
माङि लुङ् ॥ १७५ ॥
माङ्युपपदे धातोर्लुङ् प्रत्ययो भवति । सर्वलकाराणामपवादः । मा
कार्षीत् । मा हार्षीत् । कथं मा भवतु तस्य पापं मा भविष्यतीति । असाधु-
रेवायम् । के चिदाहुः । नहिवत्परो माशब्दो विद्यते तस्यायं प्रयोगः ॥