सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 237, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 237

२३० ॥ काशिका ॥ ३ ॥ ३ ॥
र्धिनावश्यं भवतीति। विधिप्रैषयोः को विशेषः। केचिदाहुः। अज्ञातज्ञापनं
विधिः। प्रैषणं प्रैष इति ॥
लिङ् चोर्ध्वमौहूर्तिके ॥ १६४ ॥
प्रैषादयो वर्तन्ते। प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्त्तिकेऽर्थे वर्तमानाद्धा-
तोर्लिङ् प्रत्ययो भवति। चकाराद्यथाप्राप्तं च। ऊर्ध्वं मुहूर्त्तादुपरिमुहूर्त्तस्य
भवता खलु कटः कर्त्तव्यः। करणीयः। कार्यः। भवान्खलु कटं कुर्यात्। भवा-
न्खलु करोतु। भवानिह प्रेषितः। भवानतिसृष्टः। भवान्प्राप्तकालः॥
स्मे लोट् ॥ १६५ ॥
प्रैषादिषूर्ध्वमौहूर्तिके इति वर्तते। स्मशब्दउपपदे प्रैषादिषु गम्यमानेष्वू-
र्ध्वमौहूर्त्तिकेऽर्थे वर्तमानाद्धातोर्लोट् प्रत्ययो भवति। लिङ्कृत्यानामपवादः
ऊर्ध्वं मुहूर्ताद्भवान्कटं करोतु स्म। ग्रामं गच्छतु स्म। माणवकमध्यापयतु स्म
अधीष्टे च ॥ १६६ ॥
स्मलोटौ वर्तते। अधीष्टं व्याख्यातम्। स्मशब्दउपपदे ऽधीष्टे गम्यमाने
धातोर्लोट् प्रत्ययो भवति। लिङोपवादः। अङ्ग स्म राजन्माणवकमध्यापय
अङ्ग स्म राजन्नग्निहोत्रं जुहुधि ॥
कालसमयवेलासु तुमुन् ॥ १६७ ॥
कालादिषूपपदेषु धातोस्तुमुन्प्रत्ययो भवति। कालो भोक्तुम्। वेला
भोक्तुम्। इह कस्मान्न भवति। कालः पचति भूतानीति। प्रैषादिग्रहण-
मिहाभिसंबध्यते। इह कस्मान्न भवति। कालो भोजनस्य। वासरूपेण
ल्युडपि भवति। उक्तमिदं स्त्र्यधिकारात्परत्र वासरूपविधिरनित्य इति ॥
लिङ् यदि ॥ १६८ ॥
कालादयोनुवर्तन्ते। यच्छब्दे उपपदे कालादिषु धातोर्लिङ् प्रत्ययो
भवति। तुमुनोपवादः। कालो यद्भुञ्जीत भवान्। समयो यद्भुञ्जीत भवान्।
वेला यद्भुञ्जीत भवान् ॥
अर्हे कृत्यतृचश्च ॥ १६९ ॥
अर्हतीत्यर्हः। तद्योग्यः। अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्य-
तृचः प्रत्यया भवन्ति। चकारालिङ् च। भवता खलु कन्या वोढव्या। वाह्या।
वहनीया। भवान् खलु कन्याया वोढा। भवान् खलु कन्यां वहेत्। भवाने-
तदर्हतीति। अथ कस्मादर्हे कृत्यतृचो विधीयन्ते। यावता सामान्येन विहि-
तत्वादर्हेपि भविष्यन्ति। योयमिह लिग्विधायते, तेन बाधा मा भूदिति।
वासरूपविधिश्चानित्यः॥