सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 190, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 190

॥ काशिका ॥ ३ । २ ॥ १८३
व्रते ॥ ८० ॥
व्रतमिति शास्त्रतो नियम उच्यते । व्रते गम्यमाने सुबन्तउपपदे धातो-
र्णिनिः प्रत्ययो भवति । समुदायोपाधिश्चायं, धातूपपदप्रत्ययसमुदायेन व्रतं
गम्यते । स्थण्डिलशायी । अश्राद्धभोजी । कामचारप्राप्तो नियमः, सति शयने
स्थण्डिलएव शेते नान्यत्र, सति भोजने ऽश्राद्धमेव भुङ्क्ते न श्राद्धमिति । व्रते इति
किम् । स्थण्डिले शेते देवदत्तः । अताच्छील्यार्थ आरम्भः । जात्यर्थो वा ॥
बहुलमाभीक्ष्ण्ये ॥ ८१ ॥
आभीक्ष्ण्ये गम्यमाने धातोर्बहुलं णिनिप्रत्ययो भवति । आभीक्ष्ण्यं पौनःपु-
न्यं, तात्पर्यमासेवा ताच्छील्यादन्यत् । कषायपायिणो गान्धाराः । क्षीरपायिण उ-
शीनराः। सौवीरपायिणो बाह्लीकाः। बहुलग्रहणात्कुल्माषखाद इत्यत्र न भवति ॥
मनः ॥ ८२ ॥
सुपीति वर्त्तते । मन्यतेः सुबन्तउपपदे णिनिप्रत्ययो भवति । दर्शनी-
यमानी । शोभनमानी । बहुलग्रहणानुवृत्तेर्मन्यतेर्ग्रहणं न मनुतेः । उत्तरसूत्रे
हि खश्प्रत्यये विकरणकृतो विशेषः स्यात् ॥
आत्ममाने खश् च ॥ ८३ ॥
आत्मनो मननमात्ममानः । आत्ममाने वर्त्तमानान्यतेः सुप्युपपदेखश्प्र-
त्ययो भवति । चकाराण्णिनिश्च । यदा प्रत्ययार्थः कर्त्ता ऽऽत्मानमेव दर्शनीय-
त्वादिना धर्मेण युक्तं मन्यते तदायं विधिः । दर्शनीयमात्मानं मन्यते दर्शनीयंम-
न्यः । दर्शनीयमानी । पण्डितंमन्यः । पण्डितमानी । आत्ममान इति किम् । दर्श-
नीयमानी देवदत्तस्य यज्ञदत्तः । अतः सार्वकालिका विधयो वेदितव्याः ॥
भूते ॥ ८४ ॥
भूतइत्यधिकारो वर्त्तमाने लडिति यावत् । यदित ऊर्द्ध्वमनुक्रमिष्यामः
भूतइत्येवं तद्वेदितव्यम् । धात्वधिकाराच्च धात्वर्थे भूतइति विज्ञायते ।
वक्ष्यति, करणे यजः । अग्निष्टोमेनेष्टवान् । अग्निष्टोमयाजी । भूतइति किम् ।
अग्निष्टोमेन यजते ॥
करणे यजः ॥ ८५ ॥
णिनिरनुवर्त्तते । न खश् । यजतेर्द्धातोः करणउपपदे णिनिप्रत्ययो
भवति भूते । अग्निष्टोमयाजी । अग्निष्टोमः फलभावनायां करणं भवति ॥
कर्मणि हनः ॥ ८६ ॥
कर्मणि उपपदे हन्तेर्द्धातोर्णिन्प्रत्ययो भवति भूते काले । पितृव्यघाती ।
मातुलघाती । कुत्सितग्रहणं कर्त्तव्यम् । इह मा भूत् । चौरं हतवान् ॥