सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 153, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 153

१४६ ॥ काशिका ॥ ३ । १ ॥
नमोवरिवश्चित्रङः क्यच् ॥ १९ ॥
करणइति वर्त्तते । नमस् वरिवस् चित्रङ् इत्येतेभ्यो वा क्यच्प्रत्ययो
भवति, करणविशेषे पूजादौ । नमसः पूजायाम् । नमस्यति देवान् । वरिवसः
परिचर्यायाम् । वरिवस्यति गुरून् । चित्रङ आश्चर्य्ये । चित्रीयते । ङकार आ-
त्मनेपदार्थः ॥
पुच्छभाण्डचीवराण्णिङ् ॥ २० ॥
करणइति वर्तते । पुच्छ भाण्ड चीवर इत्येतेभ्यो णिङ् प्रत्ययो भवति,
करणविशेषे ॥ पुच्छादुदसने पर्य्यसने पर्यसने वा ॥ * ॥ उत्पुच्छयते । परिपु-
च्छयते ॥ भाण्डात्सञ्चायने ॥ * ॥ संभाण्डयते ॥ चीवरादर्जने परिधाने
वा ॥ * ॥ संचीवरयते भिक्षुः । ङकार आत्मनेपदार्थः । णकारः सामान्यग्रह-
णार्थः, णेरनिटौति ॥
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततू-
स्तेभ्यो णिच् ॥ २१ ॥
मुण्ड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूस्त इत्येतेभ्यः करणे
णिच् प्रत्ययो भवति । मुण्डं करोति, मुण्डयति । मिश्रयति । श्लक्ष्णयति । लवण-
यति । व्रताद्भोजने तन्निवृत्तौ च । पयो व्रतयति । वृषलान्नं व्रतयति । वस्त्रात्सम्मा-
च्छादने । संवस्त्रयति । हलं गृह्णाति, हलयति । कलिं गृह्णाति, कलयति । हलिक-
ल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थम् । अजहलत् । अचकलत् । कृतं गृह्णा-
ति, कृतयति । तूस्तानि विहन्ति, वितूस्तयति केशान् । विशदीकरोतीत्यर्थः
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ॥ २२ ॥
एकाञ् यो धातुर्हलादिः क्रियासमभिहारे वर्तते तस्माद्यङ् प्रत्ययो भवति।
पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । पुनःपुनः पचति, पापच्यते । यायज्यते।
भृशं ज्वलति, जाज्वल्यते । देदीप्यते । धातोरिति किम् । सोपसर्गादुत्पत्तिर्मा
भूत् । भृशं प्राटति । एकाच इति किम् । भृशं जागर्ति । हलादेरिति किम् ।
भृशमीक्षते ॥ सूचिसूत्रिमूत्र्यट्यर्थ्याशूनां यङ्विधावनेकाजहलाद्य-
र्थम् ॥ * ॥ सोसूच्यते । सोसूत्र्यते । मो मूत्र्यते । अटाट्यते । अरार्यते । अशा-
श्यते । प्रोर्णोनूयते । भृशं शोभते, भृशं रोचतइत्यत्र नेष्यते, ऽनभिधानात् ॥
नित्यं कौटिल्ये गतौ ॥ २३ ॥
गतिवचनाद्धातोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति । कुटिलं
क्रामति, चङ्क्रम्यते । दन्द्रम्यते । नित्यग्रहणं विषयनियमार्थं, गतिवचनान्नित्यं
कौटिल्यएव भवति, न तु क्रियासमभिहारे । भृशं क्रामति ॥