सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 152, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 152

॥ काशिका ॥ ३ । १ ॥ १४५
वचनं ज्ञापकम् । श्येनैरित्यनुवृत्तेर्भूतातद्भावे क्यष् विज्ञायते । लोहित । नील ।
हरित । पीत । मद्र । फेन । मन्द । लोहितादिः ॥
कष्टाय क्रमणे ॥ १४ ॥
क्यङ्ङनुवर्तते, न क्यष् । कष्टशब्दाच्चतुर्थीसमर्थात्क्रमणेऽर्थे ऽनार्जवे क्यङ्
प्रत्ययो भवति । कष्टाय कर्मणे क्रामति, कष्टायते । अत्यल्पमिदमुच्यते ॥ सत्रक-
ष्टकच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्, ॥ * ॥ कण्वचिकीर्षा पाप-
चिकीर्षा, तस्यामेतेभ्यः क्यङ् प्रत्ययो भवति । सत्रायते । कष्टायते । कष्टाथते ।
कृच्छ्रायते । गहनायते । कण्वचिकीर्षायामिति किम् । व्रजः कष्टं क्रामति ॥
कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोः ॥ १५ ॥
रोमन्थशब्दात्तपःशब्दाच्च कर्मणो यथाक्रमं वर्त्तिचरोरर्थयोः क्यङ् प्रत्ययो
भवति । रोमन्थं वर्तयति, रोमन्थायते गौः ॥ हनुचलनइति वक्तव्यम् ॥ * ॥
इह मा भूत् । कीटो रोमन्थं वर्तयति ॥ तपसः परस्मैपदं च ॥ * ॥ तपश्च-
रति, तपस्यति ॥
बाष्पोष्मभ्यामुद्वमने ॥ १६ ॥
कर्मण इति वर्तते । बाष्पशब्दादूष्मशब्दाच्च कर्मण उद्वमनेऽर्थे क्यङ्
प्रत्ययो भवति । बाष्पमुद्वमति, बाष्पायते । ऊष्मायते ॥ फेनाच्चेति वक्तव्य-
म् ॥ * ॥ फेनमुद्वमति, फेनायते ॥
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ॥ १७ ॥
शब्द वैर कलह अभ्र कण्व मेघ इत्येतेभ्यः करणे करोत्यर्थे क्यङ् प्रत्ययो
भवति । शब्दं करोति, शब्दायते । वैरायते । कलहायते । अभ्रायते । कण्वायते ।
मेघायते ॥ सुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम् ॥ * ॥ सुदिनायते । दुर्दिनायते ।
नीहारायते ॥ अटाटाशीकाकोटापोटासोटाकष्टाग्रहणं कर्तव्यम् ॥ * ॥ अटा-
यते । आटायाते । शीकायते । कोटायते । पोटायते । सोटायते । कष्टायते * ॥
सुखादिभ्यः कर्तृवेदनायाम् ॥ १८ ॥
कर्मग्रहणमनुवर्तते । सुख इत्येवमादिभ्यः कर्मभ्यो वेदनायामर्थे ऽनुभवे
क्यङ् प्रत्ययो भवति, वेदयितुश्चेत्कर्तुः संबन्धीनि सुखादीनि भवन्ति । सुखं
वेदयते, सुखायते । दुःखायते । कर्तृग्रहणं किम् । सुखं वेदयति प्रसाधको देव-
दत्तस्य । सुख । दुःख । तृप्त† । गहन । कृच्छ्र । चक्ष । अलोक । प्रतीप ।
कृपण । कृपय । सोढ । सुखादिः ॥

  • 'अटाटाशीकाकोटापोटासोटासष्टष्टाष्टापुष्टाग्रहणं कर्तव्य'मिति पुस्तकान्तरेपाठः ॥
    अन्यपुस्तकेषु तु बहुषु 'अटाट् शीकाकोटापोटासोटापुष्टायुष्टाग्रहणं कर्तव्यम्' इति पाठः ।
    † तृप्तस्य स्थाने तीव्रेति पाठः ।
    १९