सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 148, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 148

पूरुषे । या ऽपां द्यावापृथिवी अन्तरितम् । वृञ् । मा नो अस्मिन्महाधने परा
वर्कीः । कृ । चक्रन् कर्म कर्मकृतः । गमि । अगमन् । जनि । अजनत वा अस्य
दन्ताः । ब्राह्मणे प्रयोगोयम् । मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम् ॥
आमः । ८१ ॥
आमः परस्य लेर्लुग् भवति । ईहांचक्रे । ऊहांचक्रे । ईक्षांचक्रे ॥
अव्ययादाप्सुपः ॥ ८२ ॥
अव्ययादुत्तरस्यापः सुपश्च लुग्भवति । तत्र शालायाम् । यत्र शाला-
याम् । सुपः कृत्वपि । कृत्वा । हित्वा ॥
नाव्ययीभावादतोऽम्त्वपञ्चम्याः ॥ ८३ ॥
पूर्वेण लुक् प्राप्तः प्रतिषिध्यते । अदन्तादव्ययीभावादुत्तरस्य सुपो न
लुग्भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः । तस्मिन् प्रतिषिद्धे पञ्चम्याः
यथास्वमेव भवति । उपकुम्भं तिष्ठति । उपकु