काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 147, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 147
१४० ॥ काशिका ॥ २ ॥ ४ ॥
यङो लुग्भवति अचि प्रत्यये परतः । चकारेण बहुलग्रहणमनुकृष्यते, न
तु छन्दसीति, तेन छन्दसि भाषायां च यङो लुग्भवति । लोलुवः । पोपुवः ।
सनीध्वंसः । दनीध्वंसः । बहुलग्रहणादनच्यपि भवति । शाकुनिको लालपीति ।
दुन्दुभिर्वावदीति ॥
जुहोत्यादिभ्यः श्लुः ॥ ७५ ॥
श्बनुवर्तते न यङ् । जुहोत्यादिभ्य उत्तरस्य शपः श्लुर्भवति । लुकि
प्रकृते श्लुविधानं द्विर्वचनार्थम् । जुहोति । बिभेति । नेनेक्ति ॥
बहुलं छन्दसि ॥ ७६ ॥
छन्दसि विषये बहुलं शपः श्लुर्भवति । यत्रोक्तं तत्र न भवति, अन्य-
त्रापि भवति । जुहोत्यादिभ्यस्तावन्न भवति । दाति प्रियाणि । धाति प्रियाणि ।
अन्येभ्यश्च भवति । पूर्णी विवष्टि । ज