काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 102, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ २ । १ ॥ ९५
वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमानवाचि सुबन्तं समस्यते,
तत्पुरुषश्च समासो भवति । पूज्यमानमिति वचनाद् वृन्दारकादयः पूजाव-
चना गृह्यन्ते । गोवृन्दारकः । अश्ववृन्दारकः । गोनागः । अश्वनागः । गोकु-
ञ्जरः । अश्वकुञ्जरः । पूज्यमानमिति किम् । सुसीमो नागः ॥
कतरकतमौ जातिपरिप्रश्ने ॥ ६३ ॥
कतरकतमौ जातिपरिप्रश्ने वर्त्तमानौ समर्थेन सुपा सह समस्येते, तत्पु-
रुषश्च समासो भवति । कतरकठः । कतरकालापः । कतमकठः । कतमका-
लापः । ननु कतमशब्दस्तावज्जातिपरिप्रश्नएव व्युत्पादितः, कतरशब्दोऽपि
साहचर्यात्तदर्थवृत्तिरेव ग्रहीष्यते, किं जातिपरिप्रश्नग्रहणेन । एवं तर्ह्येतज्
ज्ञापयति कतमशब्दो ऽन्यत्रापि वर्त्ततइति । तथा च प्रत्युदाहरणं, कतरो
भवतोर्द्देवदत्तः । कतमो भवतां देवदत्तः ॥
किं क्षेपे ॥ ६४ ॥
किमित्येतत् .क्षेपे गम्यमाने सुपा सह समस्यते, तत्पुरुषश्च समासो
भवति । किंराजा, यो न रक्षति । किंसखा, योऽभिद्रुह्यति । किंगौः, यो न वहति ।
किमः क्षेपे इति समासान्तो न भवति । क्षेपइति किम् । को राजा पाटलिपुत्रे ॥
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कय-
णीप्रवक्तृश्रोत्रियाध्यापकधूर्त्तैर्जातिः ॥ ६५ ॥
उभयव्यञ्जना, पोटेत्यभिधीयते । * गृष्टि, रेकवारप्रसूता । धेनुः, प्रत्य-
ग्रप्रसूता । वशा, वन्ध्या । वेहद्,गर्भघातिनी । बष्कयणी, तरुणवत्सा । पोटा-
दिभिः सह जातिवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति । इभ-
पोटा । इभयुवतिः । अग्निस्तोकः । उदश्वित्कतिपयम् । गोगृष्टिः । गोधेनुः ।
गोवशा । गोवेहत् । गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः ।
कठधूर्त्तः । जातिरिति किम् । देवदत्तः प्रवक्ता । धूर्त्तशब्दोयमकुत्सार्थम् ॥
प्रशंसावचनैश्च ॥ ६६ ॥
जातिरिति वर्तते । जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पु-
रुषश्च समासो भवति । रूढिशब्दाः प्रशंसावचना गृह्यन्ते मतल्लिकादयस्ते च
विशिष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादाना एव समानाधिकरणाः
भवन्ति । गोप्रकाण्डम् । अश्वप्रकाण्डम् । गोमतल्लिका । अश्वमतल्लिका
गोमचर्चिका । अश्वमचर्चिका । जातिरिति किम् । कुमारी मतल्लिका ॥
- युवतिर्गर्भलक्षणा स्त्री । स्तोकमल्पपर्यायः । कतिपयं च । ह्रासाधिक्यं यत्र शिष्यते ॥