काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 101, कुल 828 में से
संदर्भ में पढ़ें२४ ॥ काशिका ॥ २ । १ ॥
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥ ५८ ॥
पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः
समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पूर्वपु-
रुषः । अपरपुरुषः । प्रथमपुरुषः । चरमपुरुषः । जघन्यपुरुषः । समानपुरुषः ।
मध्यपुरुषः । मध्यमपुरुषः । वीरपुरुषः । पूर्वस्यैवायं प्रपञ्चः ॥
श्रेण्यादयः कृतादिभिः ॥ ५९ ॥
श्रेण्यादयः सुबन्ताः कृतादिभिः समानाधिकरणैः सह समस्यन्ते, तत्पु-
रुषश्च समासो भवति ॥ श्रेण्यादिषु च्व्यर्थवचनम् ॥ * ॥ अश्रेणयः श्रेणयः
कृताः । श्रेणिकृताः । एककृताः । श्रेण्यादयः पठ्यन्ते । कृतादिराकृतिगणः ।
च्व्यन्तानां तु कुगतिप्रादय इत्यनेन नित्यसमासः । श्रेणीकृताः । श्रेणि । एक ।
पूग । कुण्ड । राशि । विशिख । निचय । निधान । इन्द्र । देव । मुण्ड ।
भूत । श्रवण । वदान्य । अध्यापक । ब्राह्मण । क्षत्रिय । पटु । पण्डित ।
कुशल । चपल । निपुण । कृपण । श्रेण्यादिः ॥ कृत । मित । मत । भूत ।
उक्त । समाज्ञात । समाम्नात । समाख्यात । संभावित । अवधारित । निराकृत ।
अवकल्पित । उपकृत । उपाकृत । इति कृतादिः ॥
क्तेन नञ्विशिष्टेनानञ् ॥ ६० ॥
नञैव विशेषो यस्य सर्वमन्यत्प्रकृत्यादिकं तुल्यं तन्नञ्विशिष्टं, तेन
नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह अनञ् क्तान्तं समस्यते, तत्पुरु-
षश्च समासो भवति । कृतं च तदकृतं च, कृताकृतम् । भुक्ताभुक्तम् । पीता-
पीतम् । उदितानुदितम् । नुटिह तदुक्तत्वाच्चैव भेदकौ । अशितानशितेन
जीवति । क्लिष्टाक्लिष्टेन वर्तते ॥ कृताप्रकृतादीनामुपसंख्यानम् ॥ * ॥ कृता-
प्रकृतम् । भुक्तविभुक्तम् । पीतविपीतम् । गतप्रत्यागतम् । यातानुयातम् । क्रया-
क्रयिका । पुटापुटिका । फलाफलिका । मानोन्मानिका ॥ समानाधिकरणा-
धिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ॥ * ॥ शाकप्रधानः
पार्थिवः । शाकपार्थिवः । कुतपसौश्रुतः । अजातोल्वलः ॥
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ॥ ६१ ॥
सत् महत् परम उत्तम उत्कृष्ट इत्येते पूज्यमानैः सह समस्यन्ते, तत्पु-
रुषश्च समासो भवति । पूज्यमानैरिति वचनात् पूजावचनाः सदादयो विज्ञा-
यन्ते । सत्पुरुषः । महापुरुषः । परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः ।
पूज्यमानैरिति किम् । उत्कृष्टो गौः कद्रूमात् ॥
वृन्दारकनागकुञ्जरैः पूज्यमानम् ॥ ६२ ॥