सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 103, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 103

९६ ॥ काशिका ॥ २ । १ ॥
युवा खलतिपलितवलिनजरतीभिः ॥ ६७ ॥
खल्त्यादिभिः समानाधिकरणैः सह युवशब्दः समस्यते, तत्पुरुषश्च
समासो भवति । जरतीभिरिति स्त्रीलिङ्गनिर्देशः 'प्रातिपदिकग्रहणे लिङ्गवि-
शिष्टस्यापि ग्रहण'मिति ज्ञापनार्थः । युवा खलतिः, युवखलतिः । युवतिः
खलती, युवखलती । युवा पलितः, युवपलितः । युवतिः पलिता, युवपलिता ।
युवा वलिनः, युववलिनः । युवतिर्वलिना, युववलिना । युवा जरन्, युवजरन् ।
युवतिर्जरती, युवजरती ॥
कृत्यतुल्याख्या अजात्या ॥ ६८ ॥
कृत्यप्रत्ययान्तास्तुल्यपर्यायाश्च सुबन्ता अजातिवचनेन समस्यन्ते, तत्पु-
रुषश्च समासो भवति । भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । तुल्या-
ख्याः । तुल्यश्वेतः । तुल्यमहान् । सदृशश्वेतः । सदृशमहान् । अजात्येति
किम् । भोज्य ओदनः ॥
वर्णो वर्णेन ॥ ६६ ॥
वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन
सह समस्यते, तत्पुरुषश्च समासो भवति । कृष्णसारङ्गः । लोहितसारङ्गः ।
कृष्णशबलः । लोहितशबलः । अवयवद्वारेण कृष्णशब्दः समुदाये वर्त्तमानः
समानाधिकरणो भवति ॥
कुमारः श्रमणादिभिः ॥ ७० ॥
कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति ।
येऽत्र स्त्रीलिङ्गाः पठ्यन्ते श्रमणा प्रव्रजिता कुलटेत्येवमादयस्तैः सह स्त्रीलिङ्ग
एव कुमारशब्दः समस्यते, ये तु पुंलिङ्गा अध्यापको ऽभिरूपकः पण्डित इति,
तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति । कुमारी श्रमणा,
कुमारश्रमणा । श्रमणा । प्रव्रजिता । कुलटा । गर्भिणी । तापसी । दासी ।
बन्धकी । अध्यापक । अभिरूपक । पण्डित । पटु । मृदु । कुशल । चपल । निपुण ॥
चतुष्पादो गर्भिण्या ॥ ७१ ॥
चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो
भवति । गोगर्भिणी । अजागर्भिणी ॥ चतुष्पाज्जातेरिति वक्तव्यम् ॥ * ॥ इह
मा भूत् । कालाक्षी गर्भिणी । स्वस्तिमती गर्भिणी । चतुष्पादिति किम् ।
ब्राह्मणी गर्भिणी ॥
मयूरव्यंसकादयश्च ॥ ७२ ॥
समुदाया एव निपात्यन्ते । मयूरव्यंसकादयः शब्दास्तत्पुरुषसंज्ञा भव-