कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 93, कुल 172 में से
संदर्भ में पढ़ेंतृतीयं जवनिकान्तरम् ८३
विदूषकः—अज्ज ! जाणे सुविणए सुरसरिसोत्ते सुत्तो म्हि ।
राजा—तदो तदो ?
विदूषकः—ता हरसिरोवरि दिण्णलीलावआए गंगाए १पक्खालिदो
म्हि तोएण ।
राजा—तदो तदो ?
विदूषकः—तदो सरअसमयवरिसिणा जलहरेण जहिच्छं पीदो म्हि ।
राजा—अच्छरिअं अच्छरिअं, तदो तदो ?
विदूषकः—तदो चित्ताणक्खत्तगदे भयवदि मत्तंडे तंबवण्णीनदी-
२सङ्गमे समुद्दं गदो सो महामेहो । जाणे अहं पि तस्स ३गब्भट्ठिदो
गच्छामि ।
विदूषकः—
अद्य जाने स्वप्ने सुरसरित्स्रोतसि सुप्तोऽस्मि ।
राजा—
ततस्ततः ?
विदूषकः—
तद्धरशिरस उपरि दत्तलीलावतरणाया गङ्गायाः प्रक्षालितोऽस्मि तोयेन ।
राजा—
ततस्ततः ?
विदूषकः—
ततः शरत्समयवर्षिणा जलधरेण यथेच्छं पीतोऽस्मि ।
राजा—
आश्चर्यमाश्चर्यम् , ततस्ततः !
विदूषकः—
ततश्चित्रानक्षत्रगते भगवति मार्तण्डे ताम्रपर्णीनदीसङ्गमं समुद्रं गतोऽसौ महा-
मेघः । जानेऽहमपि ( तस्य ) गर्भसंस्थितो गच्छामि ।
१ 'पक्खित्तो' इति टीकानुमतः पाठः । २ 'संगमं' इति टीकापाठः । ३ 'तेणाहम्'
इति टीकापाठः ।