कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 94, कुल 172 में से
संदर्भ में पढ़ें८४ कर्पूरमञ्जरी
राजा—तदो तदो ?
विदूषकः—तदो सो तहि थूलजलविंदूहिं वरिसिदुं पअत्तो । अहं
च रअणाअरसुत्तिहिं मुत्तासुत्तिनामधेआहिं संपुडं समुप्पेडिअ जल-
बिंदूहि समं पीदो म्हि । ताण च दसमासप्पमाणं मोत्ताहलं भविअ
गब्भे सठिदो ।
राजा—तदो तदो ?
विदूषकः—
तदो चउस्सट्ठिसु सुत्तिसु ठिदो घणंबुविंदू जिदवंसरोअणो ।
सुवत्तुलं णिच्चलमच्छमुज्जलं कमेण पत्तो णवमोत्तिअत्तणं ॥ ४ ॥
राजा—तदो तदो ?
विदूषकः—तदो सो हं अत्ताणं ताणं सुत्तीणं गब्भगदं मुत्ता-
हलत्तणेण मण्णेमि ।
राजा—
ततस्तत ?
विदूषक —
ततोऽसौ तत्र स्थूलजलबिन्दुभिर्वर्षितुं प्रवृत्त । अहं च रत्नाकरशुक्तिभिर्मुक्ता
(शुक्ति)नामधेयाभि सम्पुटं समुद्घाट्य जलबिन्दुभि समं पीतोऽस्मि । तासां
च दशमासप्रमाणं मुक्ताफलं भूत्वा गर्भे स्थित ।
राजा—
ततस्तत ?
विदूषक —
ततश्चतु षष्टिषु शुक्तिषु स्थितो घनाम्बुबिन्दुज्जितवंशरोचन ।
सुवृत्तुलं निश्चलमच्छमुज्ज्वलं क्रमेण प्राप्तो नवमौक्तिकात्वम् ॥
राजा—
ततस्तत ?
विदूषक —
तत सोऽहमात्मानं तासां शुक्तीनां गर्भगतं मुक्ताफलत्वेन मन्ये ।
१ 'संपुडं समुग्घडिअ' इति टीकाकृत पाठः । २ 'णिच्छलं' इति टीकाकृत' पाठ ।