कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 66, कुल 172 में से
संदर्भ में पढ़ें५८ कर्पूरमञ्जरी
राजा—
ता ससिविंबस्सोवरि वहइ मज्झाउ¹ सारंगो ॥ २० ॥
विचक्षणा—
घणसारतारणअणाइ गूढकुसुमुच्चओ चिहुरभारो ।
राजा—
ससिराहुमल्लजुज्झं व दंसिदमैणणअणाए ॥ २१ ॥
विचक्षणा—
इअ देवीअ जहिच्छं पसाहणेहिं पसाहिआ कुमरी ।
राजा—
ता केलिकाणणमही विहूसिआ सुरहिलच्छीए ॥ २२ ॥
राजा—
तच्छशिविम्बस्योपरि वर्तते मध्ये कृष्ण सारङ्गः ॥
शशिविम्बसाम्यं वदनस्य कृष्णमृगसाम्यं चालकमालानामेनेनोक्तम् ।
विचक्षणा—
घनसारतारनयनाया गूढकुसुमोच्चयश्चिकुरभारः ।
राजा—
शशिराहुमल्लयुद्धमिव दर्शितमेणनयनायाम् ॥
कुसुमनिचयस्य चन्द्रसादृश्यम्, चिकुरकलापस्य च राहुसाम्यमभिव्यञ्जितम् ।
'मल्लयुद्धम्' इत्यनेन तयोः समबलत्वं तेन च तुल्यशोभत्वं ध्वन्यते ।
विचक्षणा—
इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी ।
राजा—
तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या ॥
केलीनां क्रीडानां काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम् । तत्साम्यं
कुमार्यां वसन्तलक्ष्मीसाम्यं देव्या अनेन प्रकटितम् ।
1 'स्मितसारंग' इति टीगपाठः ।