कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 24, कुल 172 में से
संदर्भ में पढ़ेंप्रथमं जवनिकान्तरम् ११
स्थापकः—ता अप्पा किं ण वण्णिदो तेण ?
पारिपार्श्वकः—सुणदु, वण्णिदो ज्जेव तक्कालकइणं मज्झम्मि मिअं-
कलेहाकधाआरेण अवराइदेण । जधा,—
बालकइ कइराओ णिब्भरराअस्स तह उवज्झाओ ।
इअ जस्स पएहिं परंपराइ माहप्पमारूढं ॥ ९ ॥
सो अत्तस कई सिरिराजसेहरो तिहुअणं पि धवलेन्ति ।
हरिणंकपाडिसिद्धीअ णिक्कलंका गुणा जस्स ॥ १० ॥
महिला कामिन्य ।
स्थापकः—
तदात्मा किं न वर्णितस्तेन ?
पारिपार्श्वकः—
शृणु, वर्णित एव तत्कालकवीनां मध्ये मृगाङ्कलेखाकथाकारेणापराजितेन ।
यथा,—
बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः ।
इत्येतस्य परम्परया आत्मा माहात्म्यमारूढ ॥
यदा तु 'दनि यस्य जयं परम्परामाहात्म्यमारूढम्' इति पाठस्तदा जयोत्कर्षं ।
आरूढमिति भावे क्तः । इयं च कारणमाला । सा यथा (का. प्र. १०।१२०)—
'यथोत्तरं चेत्पूर्वेषां पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात्' इति । परिकरोऽ-
प्यत्र । स यथा (का. प्र १०।११८)—'विशेषणैर्यत्साकूतैरुक्तः परिकरस्तु सः'
इति । द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेध्यारोपणादुत्तरोत्तरप्रसारित्वलक्षणया
परम्परापाधत्वं व्यङ्ग्यम् ।
सो इति ।
स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति ।
हरिणाङ्कप्रतिसिद्ध्या निष्कलङ्का गुणा यस्य ॥
प्रतिकूलतया सिद्धिस्तत्कार्यकारित्वम् । त्रिभुवनमिति निष्कलङ्का इति च व्यतिरेकः ।
'उपमानाद्यदन्यस्य व्यतिरेक स एव सः' (१०।१०५) इति काव्यप्रकाशे ।
अन्यस्य व्यतिरेके विशेषेणातिरेक आधिक्यं व्यतिरेक इत्यर्थः । 'विस्तराद्भुत संक्षेपै-
र्विदधीत प्ररोचनाम्' इत्युक्तत्वात् 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाध्रया । चेत-