सामग्री पर जाएँ
सर्वकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 23, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 23

१० कर्पूरमञ्जरी
स्थापकः—(विचिन्त्य ।) ता किं ति सक्कअं परिहरिअ पाउअबन्धे
पउत्तो कई ?
पारिपार्श्वकः—सव्वभासाचउरेण तेण भणिदं जेव । जधा,—
अत्थविसेसा ते चिअ सद्दा ते चेअ परिणमंता वि ।
उत्तिविसेसो कव्वं भासा जा होइ सा होउ ॥ ७ ॥
अवि अ,—
परुसा सक्कअबन्धा पाउअबन्धो वि होइ सुउमारो ।
पुरिसमहिलाणं जेत्तिअमिहंतरं तेत्तिअमिमाणं ॥ ८ ॥


दूरमल्यर्थम् । तल्लक्षणं सुधाकरे—'यन्नीचैः केवलं पात्रैर्भाविभूताथंसूचनम् ।
अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥' इति । 'तत्र विष्कम्भको भूतभाविवस्त्वं-
शसूचकः । अमूख्यपात्ररचितः संक्षेपैकप्रयोजनः ॥' तद्भेदा अपि तत्रैव—'द्विधा
स शुद्धो मिश्रश्च मिश्रः स्यान्नीचमध्यमैः । शुद्धः केवलमध्योऽयमेकानेककृतो द्विधा ॥'
ता किं इति ।
तत्किमिति संस्कृतं परिहृत्य प्राकृतबन्धे प्रवृत्तः कविः ?
पारिपार्श्वकः—
सर्वभाषाचतुरेण तेन भणितमेव । यथा,—
अर्थविशेषास्त एव शब्दास्त एव परिणमन्तोऽपि ।
उक्तिविशेषः काव्यं भाषा या भवति सा भवतु ॥
परिणमन्तोऽपीत्यनेन प्राकृतस्य संस्कृतयोनित्वमुक्तम् । तदुक्तं प्राकृतसंजीवि-
न्याम्—'प्राकृतस्य तु सर्वमेव संस्कृते योनिः' इति । दण्डिना चोक्तम्
(का. १।३३)—'तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः ।' इति । उक्तिविशेष
इति 'तददोषौ शब्दार्थौ' ( १।४ ) इत्यादिना काव्यप्रकाशे नानाभेदभिन्नं
काव्यमुपक्षिप्तम् । भाषाविशेषोनादरश्चोक्तः । कण्ठाभरणे— (२।७)
'संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः ।' इत्यादिना 'सर्वाभिरपि कथन'
(स. क. २।११ ) इत्यन्तेन ।
अवि अ इति ।
अपि च,—
परुषाः संस्कृतगुम्फाः प्राकृतगुम्फोऽपि भवति सुकुमारः ।
पुरुषमहिलानां यावदिहान्तरं तेषु तावत् ॥