कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 22, कुल 172 में से
संदर्भ में पढ़ेंप्रथमं जवनिकान्तरम् ९
भाव ! कहिज्जदु एअं को भण्णइ रअणिवल्लहसिहंडो ।
रहुउलचूडामणिणो महिंदवालस्स को अ गुरू ॥ ५ ॥
स्थापकः—(विचिन्त्य ।) अए, पण्होत्तरं खु एदं । (प्रकाशम् ।)
राजसेहरो ।
पारिपार्श्वकः—सो एदस्स कई ।
स्थापकः—किं सट्टअं ?
पारिपार्श्वकः—(स्मृत्वा ।) कहिदं जेव छइल्लेहि,—
सो सट्टओ त्ति भण्णइ दूरं जो णाडिआईं अणुहरइ ।
किं उण पवेसविस्कंभकाई केवलं ण दीसंति ॥ ६ ॥
भाव ! कथ्यतामेतत्को भण्यते रजनीवल्लभशिखण्डः ।
रघुकुलचूडामणेर्महेन्द्रपालस्य कश्च गुरुः ॥
राजशेखरकविनाम्न पर्यायो रजनीत्यादि ।
स्थापकः—विचिन्त्यनं स्वगतपर्याय । 'अश्राव्य स्वगत मतम्' इति तल्लक्षणम्।
पण्ह इति ।
अये, प्रश्नोत्तरं खल्वेतत् ।
मया पृष्टेऽनेनेदृशमुक्त चेत्प्रश्नोत्तरमस्तीत्यर्थ ।
प्रकाशमिति । 'सर्वश्राव्यं प्रकाशं स्यात्' इति तल्लक्षणम् ।
राज इति ।
राजशेखरः ।
काथा वदति—
स एतस्य कविः ।
'गोत्रं नाम च बध्नीयात्' इत्युक्ते कवेर्नामोक्ति ।
किं सट्टकम् ?
कहिदं इति ।
कथितमेव विदग्धैः,—
सट्टकमिति भण्यते दूरं यो नाटिकागिरनुहरति ।
किं पुनः प्रवेशकविष्कम्भकौ केवलं न दृश्यत. ॥