कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 21, कुल 172 में से
संदर्भ में पढ़ें८ कर्पूरमञ्जरी
( ततः प्रविशति पारिपार्श्वकः । )
पारिपार्श्वकः—आणवेदु भावो ।
स्थापकः—( विचिन्त्य । ) किं उण णट्टपउत्ता विअ दीसध ?
पारिपार्श्वकः—अध इं । सट्टअं णच्चिदव्वं ।
स्थापकः—को उण तस्स कई !
पारिपार्श्वकः—
उक्तं च भरते—'प्रावेशिकी आक्षेपिकी कामिकी उत्थापिनी प्रासादिकी इति पञ्च
ध्रुवाः ।' इति ।
तत्किमपि कुटुम्बमाकार्य पृच्छामि ।
नेपथ्येति । संज्ञापनमाह्वानसंकेतकरणम् ।
तत इति । पारिपार्श्वकलक्षणं च 'तस्यानुचरः पारिपार्श्वकः' इति साहित्य-
दर्पणे ।
आणवेदु इति ।
आज्ञापयतु भावः ।
'भाव इत्युच्यते विद्वान्' इति भावलक्षणम् ।
स्थापकः—
किं पुनर्नृत्यप्रवृत्ता इव दृश्यध्वे ।
पारिपार्श्वकः—
अथ किम् । सट्टकं नर्तितव्यम् ।
सट्टकमिति । तल्लक्षणं च भावप्रकाशे—'सैब प्रवेशकेनापि विष्कम्भेन
विना कृता । अङ्कस्थानीयविन्यस्तचतुर्जवनिकान्तरा ॥ प्रकृष्टप्राकृतमयी सट्टके
नामतो भवेत्।'
स्थापकः—
कः पुनस्तस्य कविः ?
पारिपार्श्वकः—