कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 163, कुल 172 में से
संदर्भ में पढ़ें३६ बालभारतम्
अस्मिन्महासदसि कौरवपाण्डवीये
क्षोभं गते द्रुपदजाचिकुराञ्चनाभिः ।
दुर्योधनेन भ्रुकुटी कुटिलीकृता च
जाताश्च भूमिपतयो लिखिता इवैते ॥ ४९ ॥
(सरभसं युधिष्ठिरमुपसृत्य ।) आर्य युधिष्ठिर ! प्रतिष्ठस्व वनवासाय । द्यूत-
हारितमनुष्ठीयताम् ।
(सर्वे समुत्तिष्ठन्ति ।)
द्रौपदी—रे रे दुर्योधन !
एष मे कचकर्षणपरिभव आमुक्तबन्धस्त्व-
स्तत्सत्यमेव चञ्चरीकरमणीयकेशपाशच्छटा
नखाग्राङ्कुशकोटिपाटितमहादुःशासनोरःस्थली ।
रक्तोल्लेखिकरेण निश्चितमिदं भीमेन या बध्यते ॥ ५० ॥
भीमः—रे रे दुर्योधन ! भीमसेनस्य शृणु प्रतिज्ञाम्,—
येनेयं याज्ञसेनी नृपसदसि हठात्केशहस्ते गृहीता
यश्चास्याः फोटवीथ्यं यत निद्दधदितो वाससा राशिकारः ।
सोऽहं तेनैव रोषाग्णनयनपुट पाणिनात्पाटितेन
त्वा हन्ता हन्त वक्षस्तटभुवि रठतो दुष्टदुःशासनस्य ॥ ५१ ॥
अपि च रे रे दुर्योधन !
नखग्रग्रचपाठनत्रुटितकीस्माद्वक्षमं
शिरासरणिभिर्मुखे रुधिरमुत्फलत्फेनिलम् ।
महासलिमय रुषा हृदि निवेश्य दौःशासने
युधिष्ठिरसहोदरं शृणु वृकोदरः पास्यति ॥ ५२ ॥
किं चैकस्मिन्नपराद्धेऽपि तत्सचारिणोऽप्यपराद्धाः । ततश्च,—
१ इमानि प्राकृतपद्यानि