करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 8, कुल 155 में से
संदर्भ में पढ़ें( ८ ) करणकुतूहलम् । १
लब्धेन भगणस्थाने युतः-४३७ एवं राश्यादिः ११।१३।१४
लङ्कायां सूर्योदये मध्यमो रविरयमेव बुधः शुक्रश्च ज्ञेयः एषा
परिपाटी सर्वत्र ग्रहानयने ज्ञेया। अथ गणितोपयुक्तमङ्कशोधनं
यथोक्तं बीजदत्तैः-"गुण्ये गुणे नवहृते परिशेषघाते नन्दै ९
हृते भवति यः परिशेषराशिः ॥ घातेन गुण्यगुणयोर्नवशेषितेन
साम्येन तस्य निगदेद्गणितस्य शुद्धिम्" ॥ १ ॥ यथा गुण्योऽ-
हर्गुणः १५९३१६ नवभक्ते शेषं ७ गुणकः १३ नवभक्ते
शेषम् ४ उभयोः शेषयोः ७।४ [गु० हतिः २८ ९ भाग] हतिः-नवहृतः शेषम् १ अथ
गुणिताङ्कः २०७११०८ नवभक्ते शेषम् १ उभयोः साम्ये
गुणितोऽङ्कः २०७११०८ शुद्ध एवं सर्वत्र अथ भागहार-
शोधनं पाटीगणिते प्रोक्तं-"हाराप्त्या नवशेषस्तद्गुणेनाढ्यशेषनव-
शेषः । भाज्याङ्के नवशेषस्तुल्यः स्यात्तदा शुद्धः" इति। भाज्ये
नवभिर्हृते यच्छिष्टं तद्देवाप्तिः भाजकयोर्नवभिः शेषितयोर्मिथो
वधेन युक्तस्य शेषस्य नवभागे शेषं तत्तुल्यं स्यात्तदावाप्त्य
शेषशुद्धम् । यथा भाज्ये २०७११०८ नवभक्ते शेषम् १
भाजकेऽपि. १०३ नवभक्ते शेषम् ३ लब्धमपि २२९३
नवभक्ते शेषम् ७ भाजकशेषयोर्घा ते २१ शेषम् ५२९ युतम्
५५० नवभक्तं शेषं, पूर्वशेषेण १ तुल्यं ततो लब्धम् २२९३
शेषञ्च ५२९ शुद्धमेव सर्वत्रापि प्रायशः सूर्यभगणानां गताब्दानां
च साम्यं कदाचिदनन्तरम् ॥ ७ ॥