करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 79, कुल 155 में से
संदर्भ में पढ़ेंवित्रिभलग्नदर्शान्तकालीनसूर्ययोर्विवरस्य या ज्या सा
खरामै ३० र्हृता भक्ता लम्बनं घट्यादि मध्यलम्बनं स्यात्त-
दुन्नतांशज्यया गुणितं नखेन्दुभि १२० भजेल्लब्धं स्फुटं
लम्बनं भवति, तत्स्पष्टलम्बनं वित्रिभे रवेरधिके तिथौ दर्शान्ते
धनम्, रवेर्हीने वित्रिभलग्ने तथर्णमेतावता पूर्वकपाले
खावृणं पश्चिमकपाले धनमिति निर्णीतिर्ज्ञेया, त्रिभोनलग्नेऽ-
धिक इति लक्षणे कदाचित्पूर्वकपालेऽपि धनं पश्चिमकपाले-
ऋणमिति सम्भवति तस्माद्युक्तिसहायपक्षोऽसौ न भवति ।
मध्यलग्नसमे भानौ हरिजस्य न सम्भव इत्यादिपक्षो युक्ति-
मान् दृश्यते । परन्तु यत्पद्यैर्महद्भिरङ्गीकृतं तदस्मदाद्यै-
रप्येवं व्याख्येयमेवमसकृन्नतो लम्बनसंस्कृततिथिलग्नं साध्य-
मेवं पुनरपि यावत्स्थिरं लम्बनं स्याद्यथा सायनं वित्रिभम् ५ ।
२५ । १४ । ५८ सायनोऽर्कः ३ । १८ । ३२ । २८
अनयोरन्तरम् २ । ६ । ४२ । ३० अस्य भुजज्या ११० ।
२ खरामभक्ता लब्धं घटिकादि ३ । ४० एतन्मध्यलम्बनं
तदुन्नतज्यया ११० । ३५ गुणितम् ४०५ । २८ नखेन्दु-
भिर्भक्तं लब्धं लम्बनम् ३ । २ रवेः सकाशात्त्रिभोनलग्न-
मधिकं पश्चिमकपालत्वाच्च दर्शान्ते २९ । २४ धनं जातम्
३२ । ४६ एवमसकृत् ३२ । ४६ यातैष्यनाडीत्यादिना
रविफलम् ३१ । ६ औदयिके सूर्ये धनं कृतमथवा लम्बनेन
संगुण्य षष्ट्या विभज्य लब्धं कलादि समकलसूर्य-
मध्ये लब्धं धनं कार्यमृणे लम्बने हीनं कार्यमिति कृते