सामग्री पर जाएँ
सर्वकोश
करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

Karanakutuhalam of Bhaskaracharya with Commentary

भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा

DevanagariHindipublished155 पृष्ठ

पृष्ठ 48, कुल 155 में से

संदर्भ में पढ़ें
पृष्ठ 48

( ४८ ) करणकुतूहलम् । ३
शाधिकं दिनदलात्पतितं स हरस्तदा । प्रथमखण्ड-
हतं दलितं चरं स्वगुणितं स्वषडंशविवर्जितम्
॥ ९ ॥ दशयुतं पलकर्णहतं हतिर्हहता श्रवणोऽङ्गु-
लपूर्वकः । रवियुतो नितकर्णहतेः पदं द्युतिरिनद्यु-
तिवर्गयुतेः श्रुतिः ॥ १० ॥ श्रुतिविभक्तहतिस्तु
हरो भवेत्स पतितः खहरादवशेषकम् । पृथगिदं
खखनन्दहतं हरातखविषयैरवशेषविवर्जितैः ॥ ११॥
फलपदं हि नतं यदि शेष कं दिगधिकं हर एव तदो-
न्नतम् । इति कृतं लघु कार्मुकशिञ्जिनीग्रहणकर्म
विना द्युतिसाधनम् ॥ १२ ॥
दिनार्द्धं विशरं पञ्चरहितं खहरो मध्याह्नकालीनो हरः
स्यात् । अथ नतकृतिः नतेनैव गुणितन्नतं नतकृतिर्भवति सा
पृथक् द्विधा स्थाप्या, एकत्राम्रशरैराहता पञ्चाशद्भिर्गुणीया
ततः खखनवभिर्नवशतैर्युक्ता द्वितीयस्थानस्थितया नतकृत्या
भाज्या लब्धं मध्याह्नकालीनहरात्पातयेत् शेषमिष्टकालिको
हरः स्यात्, यथा दिनार्द्धम् १६ । २६ पञ्च ५ हीनम् ११
२६ खहरोऽयम्, अथ नतस्य ५ । २६ गोमूत्रिकया नते-
नैव गुणनं नतकृतिः २९ । ३१ पृथक् २९ । ३१ एकत्राम्र-
शरैः ५० गुणिता १४७५ । ५० अपरत्र खनवत्या ९००
युक्त्या नतकृत्या ९२९ । ३१ भक्ता सवर्णितया ५५७७१
सवर्णितौ ८८५६ लब्धं घट्यादि ३ । ३५ खहरतः ११ ।