सामग्री पर जाएँ
सर्वकोश
करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

Karanakutuhalam of Bhaskaracharya with Commentary

भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा

DevanagariHindipublished155 पृष्ठ

पृष्ठ 14, कुल 155 में से

संदर्भ में पढ़ें
पृष्ठ 14

( १४ ) . करणकुतूहलम् । १
विहायाचार्येणोक्ता विशेषश्चात्रैकमहर्गणं प्रकल्प्याहर्गणो
विश्वगुण इत्यादिना स्वस्वकरणविधिना कृते स्वस्वगतयो
भवन्ति।उक्तञ्च"महीमिता १ दहर्गणात्फलानि यानि तत्कलाः।
भवन्ति मध्यमाः क्रमान्नभः सदां द्युभुक्तयः"इति परमियं गतिः
कक्षाया लघुमहत्त्वेन कलादिकाग्रहणाद्भिन्ना भवति । योजना-
त्मिका तु दिनगतिःसर्वदा सर्वेषाम् ११८४८ । ४५ समानैव
ज्ञेया। कल्पे १८७२०६९२०००००००एतावन्ति योज-
नानि सर्वे समाना भ्रमन्तीत्युक्तं चन्द्रोच्चं विनान्येषां मन्दोच्चानां
गतयो लिख्यन्ते ग्रन्थान्तरात् । वर्षैः सप्ततिभिर्विकलैका रवेर्म-
न्दोच्चस्य गतिः । द्वादशभिर्वर्षैर्विकलैका भौमस्य । बुधस्य वर्षै-
र्द्वादशभिः । बृहस्पतेश्चतुर्भिः। शुक्रस्य पञ्चभिः । शनेरे