कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 49, कुल 56 में से
संदर्भ में पढ़ेंश्रीमत्पुण्यानन्दाचार्यविरचितः ४५
भुवनारचक्रं सर्वसौभाग्यदायकं चक्रं भवनम् आवास-
स्थानं यासां ताः, देवीमनुकरणानि - चतुर्दशकरणानि, ज्ञाने-
न्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च, मनोबुद्ध्यहंकारचित्ता-
ख्यानि चत्वारि तेषां विवरणं व्याख्यानभूतं स्फुरणं चतुर्द-
शाररूपं यासां ताः, देवी तु स्वयमेव चतुर्दशकरणात्मकचतुर्द-
शारचक्रदेवतात्मना स्थिता इत्यर्थः । संध्यायाः सवर्णं सदृशं
वसनं वस्त्रं यासां ताः, संप्रदाययोगिन्यः आदिशक्तिमयत्वेन
सत्संप्रदायवेद्याः सर्वसंक्षोभिणीप्रभृतयः, संचिन्त्याः सम्यक्
भावनीयाः ॥ ४३ ॥
अव्यक्तमहदहंकृति-
तन्मात्राभीष्टविकृताङ्गनाकाराः ।
द्विरदच्छदनसरोजे
जयन्ति गुप्ततरयोगिनीसंज्ञाः ॥ ४४ ॥
अव्यक्तम् अव्यक्ताख्यं तत्त्वं, महत्तत्त्वम् , अहंकृतिः अहं-
कारतत्त्वं, तन्मात्राः पृथिव्यादिभूततन्मात्राः पञ्च, संहत्य
तु अष्ट, एतैरभीष्टं स्वीकृतमाकारं स्वरूपं यासां ताः - देव्या-
त्मिका इत्यर्थः, । गुप्ततरयोगिनीसंज्ञाः भूतदेव्या अत्यन्तान्त-