कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 45, कुल 56 में से
संदर्भ में पढ़ेंश्रीमत्पुण्यानन्दाचार्यविरचितः ४१
स्वात्मभेदबन्धन इच्छाशक्तिस्वरूपः, अङ्कुशः स्वरूपभेददल-
नोपायात्मकः ज्ञानशक्तिमयः, इक्षुचाप-पुष्पेषुरूपके स्वाभि-
न्नाकारावर्जसाधनभूतक्रियाशक्तिस्वरूपे । अयमर्थः इच्छा-
ज्ञान-क्रियाशक्तय एव तदाज्ञया पाशादिस्वरूपम् आपन्नाः
तदुपासनम् आचरन्ति इत्यर्थः । तथा च
‘ इच्छाशक्तिमयं पाशं ज्ञानमङ्कुशरूपिणम् ।
क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥ ’
इति ॥ ३६ ॥ ३७ ॥ ३८ ॥
एतदेव दिव्यमिथुनं, दिव्यसिद्धाः – अविशेषभेदभिन्नगुरु-
मण्डलस्वरूपम् उपासत इत्याह
तन्मिथुनं गुणभेदाद्-
आस्ते बिन्दुत्रयात्मके त्र्यश्रे ।
कामेश्वरिमित्रेश्वरि-
प्रमुखद्वन्द्वत्रयात्मना विततम् ॥३९॥
तन्मिथुनं, तत्-सर्वातीतत्वेन सर्वोपनिषत्प्रसिद्धं कामका-
मेश्वरीरूपम् । अयमर्थः – परमात्मा हि स्वात्मानमेव स्त्रीपुंस-
मयं कृत्वा मिथुनरूपेण विहरते । प्रकाशविमर्शात्मना मिथुनी-
6