कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 44, कुल 56 में से
संदर्भ में पढ़ें४० कामकलाविलासः
‘स्फुरत्तामात्मनः पश्येत्…।’
इति पूर्णानन्दमयात्मावलोकनसमये परिणमेत आकारान्त-
रेण, तद्देहावयवानां - तस्यास्त्रिपुरायाः देहः तेजःपुञ्जात्मकः,
तथा अवयवाः किरणाः, तेषां परिणतिः अवस्थान्तरापत्तिः।
इह आवरणदेवताः - वशिन्याद्यणिमाद्यनन्तशक्तिनिकुरम्बं
चिदानन्दसमुद्रात्मकमेव सकाशत्वे फेन-बुद्बुद-तरङ्गादिवत्
अनन्तकोटिशक्तयः प्रादुर्भावतिरोभावौ भजन्ति, इत्यर्थः।
आसीनेत्यादि. विन्दुमये सर्वानन्दाख्यपरमाकाशे -
‘बैन्दवे परमाकाशे’
इत्युक्तत्वात् इत्यर्थः। चक्रे - आत्मसंक्रमविहारपीठे, आसीना
उपरि प्रदेशे विराजमाना, सा देशकालाकारानवच्छिन्ना
तत्स्वरूपिणी, त्रिपुरसुन्दरी सर्वकारणत्वेन स्पृहणीया स्वच्छा
वा, कामेश्वराङ्कनिलया - कामेश्वरस्य श्रीनाथस्य, अङ्कं
वामोरुभागः, निलयः आवासस्थानं यस्याः सा। तथोक्तं
परमशिवेन
‘कला विद्या पराशक्तिः श्रीचक्राकाररूपिणी।
तन्मध्ये बैन्दवं स्थानं तत्रास्ते परमेश्वरी॥
सदाशिवेन संपृक्ता सर्वतत्त्वार्थगर्भिणी।’
इत्यादि। देवी विश्वसृजनादिव्यापारविनोदिनी, पाशः