जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 579, कुल 588 में से
संदर्भ में पढ़ेंभानुः सूर्यो मुखं प्रधानो येषु ते भानुमुखाः सूर्यादयो नव ग्रहास्तेषां प्रसादात् = कृपाबलात्,
मया = श्रीवैद्यनाथेन कर्त्रा, प्रोक्तं = कथितमिति ॥ १६९-१७२ ॥
पारिजाते सुधा टीका कपिलेश्वररचिता। दशाफलेऽस्मिन्नध्याये पूतिमष्टादशे गता ॥ १८ ॥
उच्चभागमें बली सम्पूर्ण फल देता है। बलरहित ग्रहकी दशा रिक्त (खाली) होती है।
नीच अंश, शत्रु भागमें प्राप्त ग्रह जातकको अनिष्ट फल देता है ॥ १६९ ॥
उस उस भावसे धनेश और सप्तमेशकी दशा अन्तर्दशामें उससे युक्त दृष्ट कारकोंसे
उस २ भावका नाश होता है। त्रिकोण धन और लाभ स्थानमें स्थित शुभग्रह यदि बली
हों तो अपनी दशा अन्तर्दशाके समय विपुल सुखको करते हैं ॥ १७०-१७१ ॥
होरासे समुद्धृत जातकपारिजातमें अठारह अध्याय राशि-रूपादिसे दशाफलान्तको
सूर्यादि ग्रहोंकी कृपासे निर्माण किया है ॥ १७२ ॥
इति मिरजापुर मण्डलान्तर्गत 'आही' ग्रामवासिसरयूपारीणवंशावतंसपाण्डेयो-
पाह्णपण्डितश्रीमच्छत्रधरसूनुना-अखिलभारतीयवर्ण्यासस्कारसमिति-वैदिक
कर्मकाण्डाचार्य-दैवज्ञभूषण-पण्डित-श्रीमातृप्रसादशास्त्रिणा
विरचिता 'विमला'ख्या हिन्दीटीका-समाप्ता ।
अथ ग्रन्थोपसंहारः ।
शाखाभिरष्टादशसंख्यकाभिरध्यायरूपाभिरतिप्रकाशः ।
ज्योतिर्मयः सर्वफलप्रधानः सङ्कीर्तितो जातकपारिजातः ॥ १ ॥
उक्तं राशिगुणालयं ग्रहगतिस्थानस्वभावाकृति-
राधानाडुिसमस्तजीवजननं बालाद्यनिष्टाकरम् ।
आयुर्जातकभङ्गयोगजविधिः श्रीराजयोगादिजो
द्वित्र्यादिग्रहयोगजः शुभकरो मान्द्यब्दजं च क्रमात् ॥ २ ॥
पश्चादष्टकवर्गबिन्दुगणितं होराधनस्थानजं
दुश्चिक्यावनिभावजं सुतरिपुस्थानप्रयुक्तं फलम् ।
कन्दर्पाष्टमधर्मराशिनितं व्यापारलाभान्त्यजं
नारीजातक लक्षणं निगदितं चक्रं दशान्तर्दशा ॥ ३ ॥
श्रीविद्याधिकवेङ्कटाद्रितनयः श्रीवैद्यनाथः सुधी-
रदित्यादिसमस्तखेटकृपया विद्वज्जनप्रीतये ।
होरासिन्धुसमुद्धृतामृतमयीमष्टादशाध्यायिनीं
चक्रे जातकपारिजातसरणिं गीतोत्सुकश्लोकिनीम् ॥ ४ ॥
इति जातकपारिजातः समाप्तः ।
अधुना चतुर्भिः श्लोकैर्ग्रन्थो पसंहारमाह । अयं जातकपारिजातः = जातकेषु पारिजातः
(सुरद्रुमः ) अध्यायरूपाभिरष्टादशशाखाभिर्युतोऽतिप्रकाशो दोषादिरहितः, ज्योतिर्मयः
ज्योतींषि ग्रहनक्षत्राद्यस्तन्मयः ग्रहनक्षत्रविषयैरोतप्रोतः, सर्वफलप्रधानः मानवजीवने
जन्मादि-निधनान्तं यावत्फलमस्ति तत्प्रकाशने मुख्यतमः अयं ग्रन्थरूपेण सङ्कीर्तितः ।
अस्मिन् जातकपारिजाते राशिगुणस्वरूपम् १, ग्रहनामस्वरूपगुणभेदकम् २, आधा-
नादिजन्माध्यायः ३, बालायरिष्टाध्यायः ४, आयुर्र्दायाध्यायः ५, जातकभङ्गः ६, राजयो-
४६। जा० पा०