जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 578, कुल 588 में से
संदर्भ में पढ़ें५५२ सटीकजातकपारिजाते-
उपसंहारः-
अष्टादशाध्यायिनि सर्वहोरासमुद्धृते जातकपारिजाते ।
राशिखरूपारिदशाफलान्तं प्रोक्तं मया भानुमुखप्रसादात् ॥ १७२ ॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजातेऽष्टादशोऽध्यायः ॥ १८ ॥
इदानीं पूर्वोक्तानां दशान्तर्दशानां ग्रहस्थितिवशेन शुभाशुभत्वमाह । प्रसूतो=नराणां
जन्मकाले सम्यग्बलिनः = पूर्वोक्तैर्बलैर्युक्तस्य ग्रहस्य, स्वकीयतुङ्गभागे (परमोच्चांशे)
व्यवस्थितस्य च ग्रहस्य सम्पूर्णानाम्नी दशा भवति । तत्फलञ्च । धनारोग्यविवर्धिनी सा
दशा भवति । तथा भगवान् गर्गः—
सर्वैर्बलैरुपेतस्य परमोच्चगतस्य च । सम्पूर्णाख्या दशा ज्ञेया धनारोग्यविवर्धिनी ॥
यश्चोच्चराशिगत एव भवति न परमोच्चांशगतस्तथा यो ग्रहो न पूर्णबलैर्युतः किन्तु
किञ्चिदूनबलयुतो