जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 559, कुल 588 में से
संदर्भ में पढ़ेंदशाफलाध्यायः ॥१८॥ ५३३
देहे पापयुते तु रोगमधिकं जीवे तु जीवभ्रमं
दद्याद्यद्यनयोः सहाबलयुतिर्मृत्युं दशायां नृणाम् ॥ ४० ॥
यदिति । शशी = चन्द्रः, यत्तरांशगतः = चक्रदशायां यक्षक्षत्रसम्बन्ध्यंशगतो भवेत्तद्रा-
शीशेनार्थान्चन्द्राधिष्ठितनक्षत्रे यद्राशिसम्बन्धिनी चक्रदशाभवेत्तद्राशीशेन, आलोकितः =
दृष्टः वा युतः = सहितो भवेत्तदा तेषां चक्रदशांशानां चक्रदशा विशेषफलदा भवेत् । अत-
रोगं वदेत् । जीवाख्ये च पापयुते धातस्य जीवभ्रमं दद्यात् । स्वदशान्तर इत्यर्थः । यद्य-
नयोः = देहजीवयोः सह, अबलयुतिः = बलहीनग्रहयोगो भवेत्तदा तद्दशायां नराणां मृत्युं =
मरणं वदेदिति ॥ ४० ॥
जिस ताराके अंशमें चन्द्रमा हो उसका जो स्वामी हो उससे देखा जाता हो वा युक्त
हो तो उनकी चक्रदशा विशेष फल देनेवाली होती हैं । अतः उनको मैं कहता हूं। देह यदि
पापग्रह युक्त हो तो देहमें अधिक रोग हो । जीवमें जीवभ्रम हो । इन दोनों के साथ अबल
ग्रह हों तो उसकी दशामें मनुष्योंकी मृत्यु कहते हैं ॥ ४० ॥
अथान्तर्दशाविशेषफलम् ।
पापो विलग्नगृहगो यदि तद्दशायां पापापहारसमये बहुशोकरोगम् ।
वित्तक्षयं नृपसपत्नभयं नराणां सौम्यस्य मिश्रमखिलं प्रवदन्ति सन्तः ॥ ४१ ॥
अधुनाऽन्तर्दशायां विशेषं फलमाह । यदि पापः = सूर्यभौमशनीनामन्यतमः, विलग्न-
गृहगो भवेत् तदा तद्दशायां ( लग्नवर्तिपापस्य दशायां ) पापापहारसमये = पापग्रहान्त-
र्दशाकाले नराणां बहुशोकरोगं, वित्तक्षयं, नृपसपत्नभयं ( राजभयं, शत्रुभयञ्च ) प्रवद-
न्ति । अथ तदानीं सौम्यस्य=शुभग्रहस्यापहारेऽखिलमुक्तं फलं मिश्रं ( शुभाशुभसम्मिलितं )
सन्तः प्रवदन्ति ॥ ४१ ॥
पापग्रह यदि लग्नमें हो तो उसकी दशामें पापके अन्तर्दशा समयमें बहुत शोक रोग
हो । धन नाश, राजभय, शत्रुभय हो । शुभग्रहके अन्तरमें सम्पूर्ण फल मिश्र होता है, यह
सन्त लोग कहते हैं ॥ ४१ ॥
लग्नाधिपदशाकाले मन्दभुक्तौ धनक्षयम् ।
इष्टबन्धुविरोधञ्च भविष्यति न संशयः ॥ ४२ ॥
अथ लग्नेशदशायां शन्यन्तरे फलमाह । लग्नाधिपदशाकाले = लग्नेशस्य दशायां,
मन्दभुक्तौ = शनैश्वरस्यान्तर्दशायां धनक्षयं, वदेत् । इष्टबन्धुविरोधश्च भविष्यति । अत्र
संशयो नेति । निश्चयमेवैत्यं भवतीति । अत्र यदि शनिरेव लग्नेशोऽपि भवेत्तदा योगोऽयं
बलीयान् भवतीति चिन्तनीयम् ॥ ४२ ॥
लग्नेशकी दशाके समय शनिकी भुक्तिमें धन नाश, इष्ट बन्धु विरोध निस्सन्देहहोवे ॥४२॥
धनाधिपः पापखगो यदि स्याच्छन्यारभोगीशदिनेश्वराणाम् ।
अन्तर्दशायां धननाशमाहुः पापन्विते तद्भवने तथैव ॥ ४३ ॥
धनान्वितः पापखगस्तदीशः स्यात्तद्दशायां क्षितिपालकोपात् ।
मानार्थनाशं निगलं नराणां स्थानच्युतिं मित्रविरोधमेति ॥ ४४ ॥
इदानीं धनेशदशायामन्तर्दशाफलमाह—धनाधिपः =द्वितीयभावेशः, यदि पापखगः =
सूर्यभौमशनीनामन्यतमः स्यात्तदा तद्दशायां, शन्यारभोगीशदिनेश्वराणाम्=शनि-मङ्गल-
राहु-सूर्याणाम्, अन्तर्दशायां धननाशं भवतीत्याहुराचार्याः । तद्भवने = द्वितीयभावे,
पापान्विते=पापग्रहेण सहिते च तथैव फलमर्थाद्धनक्षयं तत्पापदशान्त र्दशायामिति ॥४३॥
पापखगः = कश्चित्पापग्रहः, धनान्वितः = द्वितीयभावगतो भवेत्तथा स एव तदीशः =
धनेशः स्यात्तदा तद्दशायां नराणां क्षितिपालकोपात् = राजक्रोधात् , मानार्थनाशं निगलं